Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
१८ स्वर्गारोहणपर्व - १ सर्गः ]
बालभारतम् ।
येषामन्येऽपि येंऽशाः क्षितिभरहतयेऽवातरन्मर्त्यलोकं लीनांस्तांनेष तेषु त्रिदशपतिगिरा धर्मपुत्रो ददर्श ॥ २४ ॥
भुक्ताखिलद्वीप दिलीपराम भगीरथाद्यद्भुतवीरसेव्यः । अयं स्वयं तत्र रराज राजचन्द्रो हरिश्चन्द्रपदोचितश्रीः ॥ २९ ॥ भेजे श्रीजिनदत्तसूरि सुगुरोरर्हन्मतार्हस्थितेः पादाब्जभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती | वैदग्ध्यात्मनि बालभारतमहाकाव्ये स्म निर्गच्छति स्वर्गारोहणपर्व तन्मतिमहः स्पष्टोदयेऽष्टादशम् ॥ २६ ॥ इति श्रीजिनदत्तसूरिशिष्यश्री दमरचन्द्रविरचिते श्रीबालभारते महाकाव्ये वीराङ्के आश्वमेधिकाश्रमवासिकमौशलप्रास्थानिकस्वर्गारोहणाभिधपञ्चपर्वी प्रपञ्चनो
नाम द्विचत्वारिंशः सर्गः ।
अस्यामेकेन सर्गेण पञ्चपर्व्यामनुष्टुभाम् । प्रपञ्चितं शतद्वन्द्वमेकाशीतिसमन्वितम् ॥
१. 'स्तानेव' ख-ग. २. 'भक्ता' ख ग.
Aho ! Shrutgyanam
४६७

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522