Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
आस्तीक पर्व - १ सर्गः ]
बालभारतम् ।
अथाहि दिष्टे मुनिशापनुन्नः पृथासुतद्वेषविशेषतप्तः । मूर्ती यमक्रोधशिखीव नागः स नागसाह्वं नगरं प्रतस्थे ॥ ३९ ॥ विषद्विषन्मन्त्रसुधाब्धिमेष द्विजं द्विजिह्नः पथि कश्यपाख्यम् । यान्तं रयात्पार्थिवपालनाय दरिद्रमिष्टद्रविणं ददर्श ॥ ४० ॥ स पश्यतस्तस्य वटं विषाग्निघातेन दग्ध्वा तमुवाच विप्रम् | स तक्षकोऽहं नृपरक्षणे चेत्क्षमोऽसि तज्जीवय वृक्षमेनम् ॥ ४१ ॥ अहेरदत्ताथ सुधौघवृष्ट्या दृष्ट्या तरूज्जीवनमुत्तरं सः । महात्मनां वाग्भिरसूचितैव क्रिया विशत्युज्ज्वलकार्यनाट्यौ ॥ ४२ ॥ मर्त्यैरदेयं द्रविणंप्रदाय स तक्षकेण प्रहितोऽथ विप्रः । चेष्टाचयज्ञातनुपालकालः संपूर्णकामः स गृहं जगाम ॥ ४३ ॥ क्ष्मापं ययुस्तापसवेषभाजो भुजंगमाः केऽप्यथ तक्षकोक्त्या । अत्रान्तरे भीतिभिरस्पृशन्तो विषौषधीधर्मविधिच्छलेन ॥ ४४ ॥ दत्त्वाशिषं तत्स्वयमर्पितानि फलानि पुष्पाणि च पाणियुग्मे । दधौ नृपस्तत्क्षणवीक्षणीयकृतान्तदेवार्चनवाञ्छयेव ॥ ४५ ॥ दृष्ट्वा क्रिमिं शौणदृशं पिशङ्कं सूक्ष्मं फले मन्त्रिणमाह भूपः । शापेन मुच्येय दशत्वसौ मां कीटो मुधाकल्पिततक्षकाख्यः ॥ ४६ ॥ एवं नृदेवं निगदन्तमेव दग्ध्वा ससौधं विषवह्निवीच्या ।
धृतस्वरूप युतकीटरूपः खं तक्षकस्तत्क्षणमुत्पपात ॥ ४७ ॥ जनमेजयनामाथ तत्सूनुर्भासुरां भुवम् ।
स बालोऽप्युज्ज्वलत्तेजा दिवाकर इवाकरोत् ॥ ४८ ॥ अब्धेरप इवाम्भोभृद्गुरुतः कलिताः कलाः । अन्या इव व्यधादेष जगदास्वादकर्मणि ॥ ४९ ॥ सुवर्णवर्णकाशी स कुमारीमुदवाह सः । नृपो वपुष्टमां नाम पुष्टमाङ्गलिकोत्सवः ॥ ९० ॥ दिव्यदम्पतिभिः प्रेक्ष्य तं खेलन्तं तयान्वितम् । निद्रा तादृक्प्रिया नास्ति दुःखितैरिव दूरिता ॥ ५१ ॥
१. 'नृपान्त' ख.
Aho ! Shrutgyanam
४७१

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522