Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 744
________________ ५६० अपराजितपृच्छा भागत्रयात्पुष्करतोऽर्धभागं मस्तक परे । सपादभागः कर्णश्च स तत्राग्रोन्नतो भवेत् ॥ १८॥ कर्णयोः समसूत्रे तु भागाध दृष्टिरेव च । गजनेत्रोपमा कार्या मस्तकं गजमस्तवत् ॥ १९ ॥ मस्तपुस्तकयोर्मध्ये भाग पंडश वृत्तकाः। उद्धताग्रो वामपादोऽपरं स्यान क्रमम् ? ॥ २० ॥ मस्तस्य भागपादे पृष्ठे मेरु लिङ्गाकृतिः। तत्प्रदक्षिणत: कुर्यात् त्रैलोक्यं सचराचरम् ॥ २१ ॥ पुच्छग्रीवाग्रन्थिहृद-याग्रे व शेषसंभवः । कार्यश्चाऽधस्तु कृमो वै तस्याऽधो जलपट्टकम् ।। २२ ।। एवमादि प्रकर्तव्यमुक्तं सौकरमानकम् । दंष्ट्राग्रे वै लक्ष्मी वीमे दंष्ट्रायां दक्षिणः करः ॥२३॥ __ इति वाराहप्रमाणम् ॥ वैकुण्ठो विश्वरूपश्चाऽनन्त त्रैलोक्यमोहनौ । पृथगेकैकमूर्तीश्च कथयिष्याम्यनुक्रमात् ॥ २४ ॥ प्रवचम्यथ वैकुण्ठं सोऽष्टबाहुर्महाबलः। गरुडस्थश्चतुर्वक्त्रः कर्तव्यः शान्तिमिच्छता ॥ २५ ॥ गदा खड्गो बाणचके दक्षिणेऽस्त्रचतुष्टयम् । शखः खेटो धनुः प्रद्मं वामे चाऽस्त्रचतुष्यम् ॥ २६ ॥ पुरतः पुरुषाकारो नारसिंहश्च दक्षिणे । अपरे श्रीमुखाकारो वाराहास्यस्तथोत्तरे ॥२७॥ इति वैकुण्ठः ॥ विश्वरूपो महातेजा विश्वशः सृष्टिकारकः । तस्य चाऽनुक्रमं वक्ष्ये भुजानां विंशतिस्तथा ॥८॥ पताका हलश-खो च वज्राकुशशरास्तथा। चक्रं च बीजपूरं च वरो दक्षकरेषु च ॥ २९ ।। पताका दण्डपाशौच गदाशार्गे तथैव च । पद्मं शृङ्गी च मुशलमक्षं वामभुजेषु च ॥ ३० ॥ करयुग्मे योगमुद्रा वैनतेयोपरिस्थितः। नरश्च नारसिंहश्च श्रीमुखः सूकराननः ॥ ३१ ॥ स्रष्टा विश्वस्य जगतो विश्वमूर्ति महोद्भवः । शक्तिविंशतिसम्युक्तः कर्तव्यः सर्वकामदः ॥ ३२ ॥ इति विश्वरूपः ।। अनन्तोऽनन्तरूपश्च यतोऽनन्तजगद्भवः। अनन्तशक्तिसंकीणोऽनन्तरूप समुद्भवः ।। ३३ ।। भुजैदशकैर्युक्तश्चतुर्वक्त्रो महोत्सवः । सुपर्ण केतु गख्यातः कर्तव्यः सर्वकामदः ॥ ३४ ॥

Loading...

Page Navigation
1 ... 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810