Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra
View full book text
________________
अपराजित पृच्छा
चतुर्भुजा श्वेतवर्णा शङ्खचक्राभयवरा । लोहासना च कर्तव्या रथारूढा व रोहिणी ॥ १६ ॥
इति रोहिणी ॥ २ ॥
प्रज्ञावती श्वेतवर्णा षड्भुजा चैव संश्रुता । अभयवरदफल-चन्द्राः परशुरुत्पलम् ॥ १७ ॥
इति प्रज्ञावतों ॥ ३ ॥
नागपाशाक्षफलकं वरदं हंसवाहिनी । चतुर्भुजा तथैवोक्ता विख्याता वज्रगृहखला ॥ १८ ॥
इति वज्रशृङ्खला ॥ ४॥
चतुर्भुजा चक्रवज्र - फलानि वरदं तथा । श्वेतहस्तिसमारूढा कर्तव्या नरदत्तिका ॥ १९ ॥
इति नरदन्ता ॥ ५ ॥
चतुर्वर्णा स्वर्णवर्णाऽशनि चक्रफलं वरम् । अभ्ववाहन संस्था च मनोवेगा तु कामदा || २० ||
इति मनोवेगा ॥ ६॥
कृष्णाऽष्टबाहु त्रिशूल - पाशाङ्कुशधनुः शरा । चक्राभयवरदाश्च महिषस्था च कालिका ॥ २१ ॥
इति कालिका ॥ ७ ॥
कृष्णा चतुर्भुजा घण्टा त्रिशूलं च फलं वरम् । पद्मासना वृषारूढा कामदा ज्वालमालिनी ॥ २२ ॥
इति ज्वालामालिनी ॥ ८ ॥
चतुर्भुजा कृष्णवर्णा वज्रगदावराभयाः । कूर्मस्था च महाकाली सर्वशान्तिप्रदायिनी ॥ २३ ॥
इति महाकाली ॥ ९ ॥
।
चतुर्भुजा श्यामवर्णा पाशाङ्कुशफलं वरम् सूकरोपरिसंस्था व मानवी चार्थदायिनी ॥ २४ ॥
इति मानवी ॥ १० ॥
पाशाङ्कुशाब्जवरदाः कनकाभा चतुर्भुजा । सा कृष्णहरिणारूढा कार्या गौरी च शान्तिदा ॥ २५ ॥
इति गौरी ॥ ११ ॥
करद्वये पद्मफले नकारूढा तथैव च । श्यामवर्णा प्रकर्तव्या गान्धारी नामिका भवेत् ॥ २६ ॥
इति गान्धारी ॥ १२ ॥
श्यामवर्णा षड्भुजा द्वौ वरदौ खड्गखेटको । धनुर्बाणी विराटख्या व्योमयानगता तथा ॥ २७ ॥
इति विराटाख्या ॥ १३ ॥
4565

Page Navigation
1 ... 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810