Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 767
________________ (२२७) चित्रपत्रोत्पत्तिनिर्णयो नाम सप्तविंशत्युत्तर दिशततमं सत्रम् ॥ अपराजित उवाच चित्ररूपसमुद्भावाः सुरासुरनरोरगाः। त्वयैव कथितं पूर्वमुत्पति प्रलयादिकम ॥१॥ पत्रोत्पत्तिः कथं देव चित्रमूलसमुद्भवा। कथयस्व प्रसादेन पत्रं चित्रं च कीदृशम् ॥२॥ दिनपत्रं कथं प्रोक्तमतपत्रं च कीदृशम् । चन्द्रकलोद्भवं पत्रं षोडशात्मकमेव च ॥३॥ जलपत्र स्थलपत्रं नरपत्रं गजोदभवम् । मेघपत्रोदभव चैव कथयस्व परेश्वर ॥४॥ नागरं द्राविडं पत्र व्यन्तरं वेसरं तथा। कालिङ्गं यामुनं पत्रं कहिक चैतत्सुलक्षणम् ॥५॥ शिशुपत्रं च सकलं स्वस्तिकं वर्धमानकम् । सर्वतोभद्रकाकारं कथयस्व परेश्वर-॥ ६॥ पञ्चपत्राणि चान्मच षोडशात्मक्रमेव च । तत्तद्रूपोद्भवं चैव लक्षकोट्यादिसङ्ख्यकम् ॥ ७ ॥ पत्रस्थानानि वै सार्ध सुरसन्धादिकोदभवम् । कथयस्व प्रसादेन पत्रस्थानादिसाधनम् ॥ ८॥ विश्वकर्मोवाच शृणु वत्स महाभाग त्वमेव प्रकटीकृतम् । पत्रोत्पत्तिं च वक्ष्येऽहं शृणु चैकानमानसः ॥९॥ क्षीरोदार्णवके पूर्व मध्यमाने सुरासुरैः। तत्रोत्पन्नो महावृक्षो नाम्ना सुरतरुत्तदा ॥ १०॥ नानापत्रसमाकीर्णों नानापुष्पसमाकुल: । नाना फलकसम्पुक्तो ललिताइगो मनोहरः ॥ ११ ॥ सुगन्धामोदबहुल: सुगन्धागन्धितोत्पलः । तद्गन्धमोहिताः सर्वे देवदैत्यादिकास्तदा ॥ १२ ॥ परस्परं देवदैत्या वृक्षार्थे लुब्धचेतसः। ईश्वरो ( अमतो) भवं मन्यन्ते दैत्याश्च त्रिदशा अपि ॥ १३ ॥ शाखापत्रोद्भवश्चतुर्दिक्षु मध्यत ऊर्ध्वतः। मानतः पत्रसंकीणों दिशाभेदैः परात्परम् ॥ १४ ॥ नागरं पूर्वशाखायां द्राविडं दक्षिणोद्भवम् । अपरे व्यन्तरं चैव वेशरं च तथोत्तरे ॥१५॥ कालिङ्गमूर्वतश्चैव शाखान्त च पामुनम् । षड्जात्युत्पत्तिभेदैश्च पत्रमेवं समुद्गतम् ॥ १६ ॥

Loading...

Page Navigation
1 ... 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810