________________
(२२७) चित्रपत्रोत्पत्तिनिर्णयो नाम सप्तविंशत्युत्तर दिशततमं सत्रम् ॥
अपराजित उवाच
चित्ररूपसमुद्भावाः सुरासुरनरोरगाः। त्वयैव कथितं पूर्वमुत्पति प्रलयादिकम ॥१॥ पत्रोत्पत्तिः कथं देव चित्रमूलसमुद्भवा। कथयस्व प्रसादेन पत्रं चित्रं च कीदृशम् ॥२॥ दिनपत्रं कथं प्रोक्तमतपत्रं च कीदृशम् । चन्द्रकलोद्भवं पत्रं षोडशात्मकमेव च ॥३॥ जलपत्र स्थलपत्रं नरपत्रं गजोदभवम् । मेघपत्रोदभव चैव कथयस्व परेश्वर ॥४॥ नागरं द्राविडं पत्र व्यन्तरं वेसरं तथा। कालिङ्गं यामुनं पत्रं कहिक चैतत्सुलक्षणम् ॥५॥ शिशुपत्रं च सकलं स्वस्तिकं वर्धमानकम् । सर्वतोभद्रकाकारं कथयस्व परेश्वर-॥ ६॥ पञ्चपत्राणि चान्मच षोडशात्मक्रमेव च । तत्तद्रूपोद्भवं चैव लक्षकोट्यादिसङ्ख्यकम् ॥ ७ ॥ पत्रस्थानानि वै सार्ध सुरसन्धादिकोदभवम् ।
कथयस्व प्रसादेन पत्रस्थानादिसाधनम् ॥ ८॥ विश्वकर्मोवाच
शृणु वत्स महाभाग त्वमेव प्रकटीकृतम् । पत्रोत्पत्तिं च वक्ष्येऽहं शृणु चैकानमानसः ॥९॥ क्षीरोदार्णवके पूर्व मध्यमाने सुरासुरैः। तत्रोत्पन्नो महावृक्षो नाम्ना सुरतरुत्तदा ॥ १०॥ नानापत्रसमाकीर्णों नानापुष्पसमाकुल: । नाना फलकसम्पुक्तो ललिताइगो मनोहरः ॥ ११ ॥ सुगन्धामोदबहुल: सुगन्धागन्धितोत्पलः । तद्गन्धमोहिताः सर्वे देवदैत्यादिकास्तदा ॥ १२ ॥ परस्परं देवदैत्या वृक्षार्थे लुब्धचेतसः। ईश्वरो ( अमतो) भवं मन्यन्ते दैत्याश्च त्रिदशा अपि ॥ १३ ॥ शाखापत्रोद्भवश्चतुर्दिक्षु मध्यत ऊर्ध्वतः। मानतः पत्रसंकीणों दिशाभेदैः परात्परम् ॥ १४ ॥ नागरं पूर्वशाखायां द्राविडं दक्षिणोद्भवम् । अपरे व्यन्तरं चैव वेशरं च तथोत्तरे ॥१५॥ कालिङ्गमूर्वतश्चैव शाखान्त च पामुनम् । षड्जात्युत्पत्तिभेदैश्च पत्रमेवं समुद्गतम् ॥ १६ ॥