________________
अपराजितपृच्छा नन्दादिक्रमयोगेन तथा चन्द्रकलाक्रमः । दिनपत्रोद्भवस्त्वेवं सङ्गख्यातो दशपञ्चभिः ॥ १७ ॥ नन्दा भद्रा जया रिक्ता पूर्णास्यात् पञ्चमी तथा । पञ्च पञ्च तथा पञ्च मासार्धे तु यथा यथा ॥ १८॥ नन्दायाः शिशुपत्रं च भद्रायाः सकलं तथा । स्वस्तिकं तु जयायाश्च रिक्ताया वर्धमानकम् ॥ १९॥ पूर्णायाः सर्वतोभद्रं पञ्चमं परिकीर्तित्तम् । षष्ठिकादि दशम्यन्तमन्यपञ्चसमुद्भवः ।। २० ॥ जयं च विजयं चैव उद्तं पत्रमक्षयम् । सर्वमङ्गल भवाख्यं पञ्चान्ये च प्रकीर्तिताः ॥ २१ ।। षष्ठयाधं च दशम्यन्तं पत्राणां पञ्चकं तथा। पुनरन्यानि पञ्चैकादशाद्य पूर्णान्तं तथा ॥ २२ ॥ श्रियं श्रियो वाख्यं च रत्नगर्भ तेजोभवम् ।। सर्वानन्दं महोत्साहं पत्राणां दशपञ्चकम् ।। २३ ।। घसन्ते नागरं पत्रं द्राविडं ग्रीष्मके तथा। वर्षासु व्यन्तरभवं वेसरं च शरदतो ॥ २४ ॥ हेमन्ते चैव कालिङ्ग यामुन शिशिरोद्गतम् । षड्तूभवपत्राणि सर्वाणि शुभदानि च ।। २५ ।। तथा शाखोद्भवं पत्रमुक्त दशविधं क्रमात् । शाखोद्भवानि पञ्चैव ( षट्चैव ) कन्दजानि तु षोडश ॥ २६ ॥ तथा चाकारपत्राणि लक्षकोट्यादिकानि च । पुनरन्यानि वक्ष्येऽहं प्रकारैः पञ्चतानि च ॥२७॥ हंसपत्रं नक्रपत्र मत्स्यपत्रं च कूर्मकम् । पनपत्रं तथा चैव पञ्चकं जलजं भवेत् ॥ २८ ॥ स्थलजं छन्दजाकारं प्रासादगृहकादिकम् । नरनार्यादिकं पत्रं नरपत्रं च पश्चमम् ॥ २९ ॥ गजपत्रमश्वपत्र जानुगं पद्मजं तथा। सिंहासनादिपत्रं च गजपत्रं तु पञ्चकम् ॥ ३० ॥ अनेकाकारपत्रं च मेघपत्रं तथैव च । पत्राकारास्तथा चैते कथितास्त्वपराजित ॥ ३१॥ पुनः स्थानेषु सर्वेषु तत्र पत्राणि योजयेत् । स्तम्भेषू द्वारपक्षेषु प्रासादेषु च सर्वतः ॥ ३२ ॥ षोडशाभरणश्चैव तत्र पत्रं तु दापयेत् । हारकेयूर कङ्कणकटिसूत्रादिभिः समः ॥ ३३॥ यत्र स्थाने भवेत्पत्र लक्ष्मीस्तत्र हितेक्षणा ।
(नाभ्यचित्रोद्भवा ? ) नाऽपत्रतो भवेल्लक्ष्मीः शुभस्थानं च पत्रतः॥ ३४ ॥ इति सूत्रसन्तानगुण कीर्तिप्रकाशप्रोक्त श्रीभुवनदेवाचार्योक्तापराजितपृच्छाया चित्रपत्री
त्पत्तिनिर्णयाधिकारो नाप सप्तविंशत्युत्तर द्विशततमं सूत्रम् ।।