________________
(२२८) पत्रजाति कण्टकभेद जीवसूत्रनिर्णयो नामाष्टाविं
शत्युत्तरद्विशततमं सूत्रम् ॥
विश्वकर्मोवाच
अथातः संप्रवक्ष्यामि कण्टकानां तु लक्षणम् । अष्टौ जातिक्रमच्छन्दात् कण्टका अभिधानतः ॥ १॥ कलिश्च कलिकश्चैव व्यामिश्रश्चित्रकौशलः। व्यावर्तश्चैव व्यावृत्तः सुभगो भङ्गचित्रकः ॥२॥ अगस्तिपुष्पकाकारः संभवेत् कलिकंटकः । वराहदंष्ट्राकृतिकः कलिकश्चेति संज्ञितः ॥ ३॥ बद्धपुष्पोद्भयश्चैव व्यामिश्री मध्यकेशरः। उकाराकारसदृशः स भवेच्चित्रकौशलः ॥४॥ व्यावतों व्याघ्रनखवद् व्यावृत्तः कलशाकृतिः । भङगचित्रोषदखत् सुभगः कृतिकाकृतिः ।। ५ ।। नागरी व्याघ्रनखवद् द्राविडस्तदनन्तरम् । बदरीकेतकीनां च द्राविड; कण्टकैः समः ॥ ६॥ व्यन्तरो वराहदंष्ट्रो वेसरो मुनिपुष्पवत्। उकाराकारः कलिङ्गो यामुनः पुष्पगर्भकः ॥७॥ उक्ता अष्टविधाकारा षड्जातीयाश्च कण्टकाः। कण्टकानां तथाकाराः कथिताः पूर्वमेव च ॥ ८॥ वेदाक्षरं पदं कृत्वा कण्टकावर्तनोद्गतम्। .. ब्रह्मस्थाने भवेद् बिन्दु मातेन वर्तितः ॥ ९ ॥ तद्वर्तिताग्रसंस्थाने बिन्दुःस्थादक्षरोद्भवः । तदूर्ध्वं भ्रमगर्भ च वृत्तमर्ध चन्द्राकृति ॥ १० ॥ ब्रह्मस्थानोर्ध्वगत च दक्षिणोद्भवाकारकम् ।। कलिकोद्भवाक्षं वाराह कर्णसम्भवम् ॥ ११ ॥ तस्योऽपरेदगम्यं त तदान्यता कंटकोपमम् । अग्रस्याग्र पदवणेषु अपरानतः कर्णिकारुतिः ॥ १२॥ तस्या यावत्याग्रेन मवधी पदपादो......। पृथुग्रीश त्रिपादे...पादोदर कंटका...? ॥ १३ ॥ ................................. ........। ...त्र स्थानासमुद्भव्यां ने निम्नान धान्यांतकम् ? ॥ १४ ॥ चक्रप्रीवोदगताश्कारिक कलिकोदभवं वाराहकर्णिकोदगतम् । अग्राधारः पुनः पृष्ठे कलिका मुनिपुष्पवत् ॥१५॥
७४ अप.