________________
५८६
প্রথলিব कण्टकोदरमध्ये तु कलिका जीवसूत्रकम् । तदास्पहम्................................॥ १६॥ रोमास्थिमांसत्वचाश्च एवं क्षितिगुणोद्भवाः ।। ...............चध्ये जीवसूत्रेण कथ्यते ॥ १७ ॥ रेखास्थिवर्णमांसानि चतुश्छाया: प्रकीर्तिताः । पादाद्यङ्गानि सर्वाणि नाडीरोसं च विदु वर्तया ॥ २८ ।। मज्जा च क्षितिराख्याता राजेन्द्रन्यदय बीजकम् ? । .................. अद्भ्यो रससमुद्भवः ॥ १९ ॥ ........................तेजो द्रव्यस्य बीजकम् । .........................वायुश्च वर्तनाकृतिः ॥ २० ॥ आकाशं...............पञ्चतत्त्वोदभवं तथा । जीवसूत्रमिदं शेयं पत्राकारं प्रकथ्यते ॥ २१ ॥ घनघण्टाकुलाकीर्णमने चलितकुञ्चिकम् । भङ्गे (अने) भगोदूभवं भङ्ग मनेकाकाररूपकम् ॥ २२ ॥ शुकचञ्चसमाकारं बदरीकण्टकाकृति । पलाल धूमसंकाशं द्राविडं पत्रमुच्यते ॥ २३ ॥ कृचिद् भिन्न कृचिच्छन्नं कृचिदन्योन्यवेष्टितम् । मुनिपुष्पसमाकीर्ण वेशरं पत्रमुच्यते ॥२४॥ उच्यते व्यन्तरं पत्रमा भगोद्भवाकृति । उकारकण्टकाकीण कालिङ्गं पत्रमुच्यते ॥ २५ ॥ सुर्घ त (वि) रलभड्ग र व्यावृत्तकैस्तथा। पुष्पग भवाकीर्ण यामुनं पत्रमुच्यते ॥ २६ ॥ ललितं कोमलं भनौ विषमे गर्भसम्भवम् । सुकुमारगोंदभवं वाहावर्ता (व्यावर्तस्था) कुलोद्भवम् ॥ २७ ॥ तरल नागरं चैव वलितं व्यन्तरं तथा । आकुञ्चितं वेसरं च ऊर्ध्व कालिगकं भवेत् ॥ २८ ॥ पुनस्त्रिपञ्चसप्ताद्यं याव............वधि। अतिवक्रकुलाकीणं द्राविडं कण्टकोभवम् ॥ २९ ॥ उदितं यामुनं वक्रैः कण्टकानां तु निर्णयः। देशजातिकुलस्थानं वर्णभेदास्तथापरः ॥ ३० ॥ पत्राकारो वर्णभेदो जीवसूत्रादि चोदितम् ॥ इति सूत्र सन्तानगुणकीर्तिप्रकाशप्रेक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां पत्रजाति कण्टकभेद जीवसूत्रनिर्णयाधिकारी नामाष्टाविंशत्युत्तरद्विशततमं सूत्रम् ॥