________________
(२२९) देशजातिकुलस्थान वर्णभेदवर्णनं मैकोनत्रिंशदुत्तरद्विशततमं सूत्रम् ॥
विश्वकर्मोवाच
देशजातिकुलस्थानं वर्णभेदश्व कथ्यते । पूर्वोद्भवं नागरं च कर्णाटे द्राविडं स्मृतम् ॥ १ ॥ व्यन्तरं पश्चिमभचं वेशरं चोत्तरे तथा । कलिङ्गदेशे कालिङ्गं यामुनः सर्वतः स्थितम् ॥ २ ॥
देशजातिश्च कथिता कुलस्थानं कुलोद्गतम् । नागरं विप्रजातिः स्याद् द्राविडं क्षत्रियस्तथा ॥ ३ ॥
व्यन्तरं वैश्यजातिश्च वेशरं च तथैव च ।
कालिङ्गं चित्र ! (मिश्र) वर्णाढ्यं यामुनं सर्वतः समम् ॥ ४ ॥
कुलस्थानोद्भवश्चेत्थं वर्णभेदश्वकथ्यते ।
नागरं श्वेतवर्णस्याद् द्राविडं रक्त वर्णकम् ॥ ५ ॥
व्यन्तरं पीतसंकाशं हरिद्वर्ण तु वेशरम् । हरिद्वर्ण व कालिङ् यामुनं सर्ववर्णकम् ॥ ६ ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाश प्रोक्तृश्री भुवनदेवाचार्योक्तापराजित पृच्छायां देशजातिकुलस्थान वर्णभेदवणनाधिकारो नामैको नत्रिंशदुत्तरद्विशततमं सूत्रम् ॥