________________
(२३०) सरस्वत्यर्चन गुरुशिष्य सम्बन्धलक्षणं त्रिंशदुत्तर
- द्विशततमं सूत्रम् ॥
विश्वकर्मोवाच
सरस्वत्यर्चनं वत्स शणु वक्ष्यामि साम्प्रतम् । आचार्य क्रमयुक्ति च दीक्षासारसमुच्चयम् ॥ १॥ आदौ परीक्षयेच्छिष्य शकुनं च निरीक्षयेत् । लनशुद्धिं ग्रहयोग ततो दीक्षा प्रदीयते ॥ २॥ विनीतं सोद्यम धीर शान्तं शीलगुणान्वितम् । विनयाचारसंयुक्तं गुरुपादार्चने रतम् ॥ ३॥ कुशलं सर्वशास्त्रेषु वास्तुवेदोद्भवादिषु । देवाग्निगुरुपूजासु रतं धर्मेषु नित्यशः॥४॥ इत्यादिगुणसम्युक्तं दीक्षयेच्छिष्यकोत्तमम् । गुणाधिकश्च कथितो वय॑दोषान्वदाम्यहम् ॥ ५ ॥ कुज व बधिर चैव चक्षुहीनं खल्वाटकम् । कुरूपं व्याधियुक्तं च कुदेहं कृष्णरूपकम् ॥६॥ कुसगं पापनिरतं व्यङ्गदोपैश्च दूषितम् । ' वर्जयेदीदृशं शिष्यं दीक्षितो गुरुविनकृत् ॥ ७ ॥ मठेऽथवा गहे चोका देवाची वेदिकोत्तमा। तत्रस्थां पूजयेद्देवीं वाग्वाणी (वाग्देवी) चैव भैरवीम् ॥ ८॥ भद्रकं मण्डलं कृत्वा सूर्यकोणैरलङ्कृतम् । तन्मध्यसूत्रतः कुर्याद् द्दाराणि च चतुर्दिशम् ॥९॥ द्वारपालाः प्रपूज्याश्च क्षेत्रपालास्ततो नृभिः।। पूज्या स्तथाऽष्टपिक्पाला क्रमतश्च प्रदक्षिणम् ॥ १० ॥ महापनं चाऽष्टदल तन्मध्ये कर्णिकां तथा । पत्रान्तरे च भैरव्याः कुलदेव्याश्च कर्णिकाः ॥ ११ ॥ तत्केशरमध्यपङ्क्तौ चतुर्वर्णाः सितादिकाः। श्वेतरकपीतकृष्णाः पुनरप्येव वर्णकाः ॥ १२ ॥ षट्कोणकभिदं व्योम षड दूतिकार्चने मतम् । तत्र मध्ये भवेच्छक्तिः पृथिवी सृष्टिरूपिका ॥ १३ ।। कामाख्या निलयीभूता बद्धपद्यासना स्थिता । अक्षमाला तथा वीणा पुस्तकं च कमण्डलुः ॥१४॥ नीलकण्ठी श्वेतभुजा श्वेतागी चन्द्रशेखरा । महाविद्या महावाणी भारती च सरस्वती ॥ १५ ॥