Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 780
________________ (२३४) स्त्रीपुरुषलक्षणं चतुस्त्रिंशदुत्तरद्विशततमं सूत्रम् ॥ अपराजित उवाच लक्षण स्त्रीपुरुषाणां बाह्यतोऽभ्यन्तरे तथा। कथयस्व प्रसादेन समुद्रोक्तं यथा पुरा ॥१॥ विश्वकर्मोवाच अथात; सम्प्रवक्ष्यामि स्त्रीनरादेव लक्षणम् । तश्चानुक्रमतः पूर्वं यदुक्तं तु कलाबुधैः ॥ २॥ आदौ परीक्षयेदायुः पश्चाल्लक्षणमेव च । तश्च स्त्रीणां वामभागे पुरुषाणां च दक्षिणे ॥ ३ ॥ आदौ वक्ष्ये पूरुषाणां स्त्रीणां च तदनन्तरम् । दृष्टयवलोकमात्रेण लक्षयेत् स्त्रीनरादिकम् ॥ ४॥ पञ्चदीर्घ पञ्चहूस्व पञ्चसूक्ष्म षडुन्नतम् ।। सप्तरक्तं त्रिगम्भीर त्रिविस्तीर्ण प्रशस्यते ॥५॥ हस्तयो नैत्रयोश्चैव नासायां चैव पञ्चमम् । एवमादिगुणोपेतं पञ्चदीर्घ प्रशस्यते ॥ ६॥ ग्रीवा चन्द्रकं जननं पृष्ठं जया तथैव च। ---- - - ॥ - -- --- --- -- -- -- ७॥ ------ - ----- ----॥१०॥ (११-१२-१३ श्लोका लुप्ताः) पूर्णचन्द्रमुखी कन्या बालसूर्यसमप्रभा। विशालनेत्रा बिम्बोष्ठी सा कन्या लभते सुखम् ॥ १४ ॥ गतौ हंसगति र्या च नातिहस्वाति दीपिका । सुखिनी सा भवेल्लोके समुद्रकथितं तदा ।! १५ ॥ (१६-१७-१८ श्लोका लुप्ताः ।।) यस्याः करतले छत्रं प्राकारस्तोरणं तथा। अपि दालकुले जाता राजपत्नी भविष्यति ॥ १९ ॥ यस्याः करतले रेखा अकुशाकार शोभिता। गजाधिपस्य पत्नी सा भवत्येवं न संशयः ॥ २०॥

Loading...

Page Navigation
1 ... 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810