________________
(२३४) स्त्रीपुरुषलक्षणं चतुस्त्रिंशदुत्तरद्विशततमं सूत्रम् ॥
अपराजित उवाच
लक्षण स्त्रीपुरुषाणां बाह्यतोऽभ्यन्तरे तथा।
कथयस्व प्रसादेन समुद्रोक्तं यथा पुरा ॥१॥ विश्वकर्मोवाच
अथात; सम्प्रवक्ष्यामि स्त्रीनरादेव लक्षणम् । तश्चानुक्रमतः पूर्वं यदुक्तं तु कलाबुधैः ॥ २॥ आदौ परीक्षयेदायुः पश्चाल्लक्षणमेव च । तश्च स्त्रीणां वामभागे पुरुषाणां च दक्षिणे ॥ ३ ॥ आदौ वक्ष्ये पूरुषाणां स्त्रीणां च तदनन्तरम् । दृष्टयवलोकमात्रेण लक्षयेत् स्त्रीनरादिकम् ॥ ४॥ पञ्चदीर्घ पञ्चहूस्व पञ्चसूक्ष्म षडुन्नतम् ।। सप्तरक्तं त्रिगम्भीर त्रिविस्तीर्ण प्रशस्यते ॥५॥ हस्तयो नैत्रयोश्चैव नासायां चैव पञ्चमम् । एवमादिगुणोपेतं पञ्चदीर्घ प्रशस्यते ॥ ६॥ ग्रीवा चन्द्रकं जननं पृष्ठं जया तथैव च।
---- - - ॥ - -- --- --- -- -- --
७॥
------ - ----- ----॥१०॥
(११-१२-१३ श्लोका लुप्ताः) पूर्णचन्द्रमुखी कन्या बालसूर्यसमप्रभा। विशालनेत्रा बिम्बोष्ठी सा कन्या लभते सुखम् ॥ १४ ॥ गतौ हंसगति र्या च नातिहस्वाति दीपिका । सुखिनी सा भवेल्लोके समुद्रकथितं तदा ।! १५ ॥
(१६-१७-१८ श्लोका लुप्ताः ।।) यस्याः करतले छत्रं प्राकारस्तोरणं तथा। अपि दालकुले जाता राजपत्नी भविष्यति ॥ १९ ॥ यस्याः करतले रेखा अकुशाकार शोभिता। गजाधिपस्य पत्नी सा भवत्येवं न संशयः ॥ २०॥