________________
अपराजित पृच्छा
छत्रं च चामरं चैव यस्याः करतले भवेत् । सार्वभौमनृपस्त्री सा भवत्येवं न संशयः ॥ २१ ॥ यस्याः करतले रेखा खड्गाकारा प्रदश्यते । पत्या पत्नी युध्यते साऽन्यत्र वै वैरकारिणी ॥ २२ ॥ यस्याः करतले पद्मं धनधान्य समृद्धिनी । शङ्खकारा यदा रेखा स्नानदेवार्चने रता ॥ २३ ॥ यस्याः शूलाकृती रेखा सा भवेच्च तपस्विनी । दीर्घकेशी भवेद् दुःखाद् व्रतिनी च प्रवासिनी ॥ २४ ॥ यस्याः करतले रेखा दीपाकारा च दृश्यते । सापुत्रपौत्र सन्तान भवेच्च कुलशालिनी ॥ २५ ॥ नन्द्यावर्ती यदा हस्ते नित्यं कल्याणकारिणी । षट्कोणायतहस्ता या पूज्या सा पूजनैः सदा ॥ २६ ॥ यस्या हस्ते ध्वजाकारा रेखा
( २७-२८
667
४२- श्लोका न लभ्यन्ते )
अशुभं परिवर्जयेत् ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्ता पराजित पृच्छायां स्त्रीपुरुषलक्षणाधिकारो नाम चतुस्त्रिंशदुत्तरद्विशततमं सूत्रम् ॥
५९७