Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 781
________________ अपराजित पृच्छा छत्रं च चामरं चैव यस्याः करतले भवेत् । सार्वभौमनृपस्त्री सा भवत्येवं न संशयः ॥ २१ ॥ यस्याः करतले रेखा खड्गाकारा प्रदश्यते । पत्या पत्नी युध्यते साऽन्यत्र वै वैरकारिणी ॥ २२ ॥ यस्याः करतले पद्मं धनधान्य समृद्धिनी । शङ्खकारा यदा रेखा स्नानदेवार्चने रता ॥ २३ ॥ यस्याः शूलाकृती रेखा सा भवेच्च तपस्विनी । दीर्घकेशी भवेद् दुःखाद् व्रतिनी च प्रवासिनी ॥ २४ ॥ यस्याः करतले रेखा दीपाकारा च दृश्यते । सापुत्रपौत्र सन्तान भवेच्च कुलशालिनी ॥ २५ ॥ नन्द्यावर्ती यदा हस्ते नित्यं कल्याणकारिणी । षट्कोणायतहस्ता या पूज्या सा पूजनैः सदा ॥ २६ ॥ यस्या हस्ते ध्वजाकारा रेखा ( २७-२८ 667 ४२- श्लोका न लभ्यन्ते ) अशुभं परिवर्जयेत् ॥ इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्ता पराजित पृच्छायां स्त्रीपुरुषलक्षणाधिकारो नाम चतुस्त्रिंशदुत्तरद्विशततमं सूत्रम् ॥ ५९७

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810