Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 785
________________ (२३६) षोडशाभरणलक्षणं ष‌त्रिंशदुत्तर द्विशततमं सूत्रम् ॥ अपराजित उवाच - सुरासुरनरादीनां भूषणानि कथं प्रभो । अतियुक्ततरं चैव शम्भुना यत्प्रकाशितम् ॥ १ ॥ वाद्यनर्तनगीताद्यं तालमूलसमुदभवम् । कथयस्व प्रसादेन सर्व विश्वजगत्पते ॥ २ ॥ विश्वकर्मोवाच भूषणं तात ते वक्ष्ये पादादौ षोडशात्मकम् । तथाभरणसूत्राणि कथये शृणु पुत्रक ।। ३ ।। मेरुद्रयं निगदितं पताका सूचिका तथा । दशदलितगुरुणोद्दिष्टं नष्टं च षष्टकम् ॥ ४ ॥ भवन्ति प्रस्तारगताः षडिमे प्रत्ययाः खलु । ( चत्वार आद्यासुरवेश्मनां च ) कर्तारएवामरवेश्मनां च दक्षाअपि प्रत्ययकान् षडेतान् । ये चैन जानन्ति गुरूपदिष्टास्ते सूत्रधारा रिपवः प्रजानाम् ॥ अपराजित उवाच - सुरासुरनरादीनां भूषणानि कथं प्रभो । कथयस्व प्रसादेन सर्व विश्वजगत्पते ॥ १॥ विश्वकर्मोवाच ७६ अप. - भूषणानि तात वक्ष्ये आपादतलमस्तकम् । षोडशाभरणानीह कथितानि च पुत्रक ॥ २॥ नूपूरः पादकटकः प्रलम्बोदकमेव च । मेखलो कटिसूत्र ( तथा कट्यां ) हारो वक्षः स्थलालयः ॥ ३ ॥ मुक्ताफलानि सर्वाणि शुद्धा कर भवानी च । पाण्डयमातङ्गसौराष्ट्रे हैम सौपर कौशले ॥ ४ ॥ वेण्वात कलिङ्गे च वज्राकरसमुद्भवः । एभ्यो (एषु) मुक्तासमानानि शुद्धरतानि यानि च ॥ ५ ॥ अथवा चाहिमातङ्ग वाराहमत्स्यनक्रजाः । शङ्खजा वेणुजाश्चैव मुक्तानां (मध्ययोनता ?) योनय इमाः ॥ ६ ॥ निश्चलत्वमन्यूनत्वं निर्वाणत्वं सुगन्धिता । सुवेध्यं च मणि वीक्ष्म कण्ठे धार्य्यं च भूभुजैः ॥ ७ ॥ व्यङ्गितानि यदा तानि त्यजेदेतानि भूपतिः । पुराणि (रत्नानि ) सौम्यरूपाणि नृपार्थं हार उत्तमः ॥ ८ ॥ इति हारः ॥

Loading...

Page Navigation
1 ... 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810