________________
(२३६) षोडशाभरणलक्षणं षत्रिंशदुत्तर द्विशततमं सूत्रम् ॥
अपराजित उवाच -
सुरासुरनरादीनां भूषणानि कथं प्रभो । अतियुक्ततरं चैव शम्भुना यत्प्रकाशितम् ॥ १ ॥
वाद्यनर्तनगीताद्यं तालमूलसमुदभवम् । कथयस्व प्रसादेन सर्व विश्वजगत्पते ॥ २ ॥ विश्वकर्मोवाच
भूषणं तात ते वक्ष्ये पादादौ षोडशात्मकम् । तथाभरणसूत्राणि कथये शृणु पुत्रक ।। ३ ।। मेरुद्रयं निगदितं पताका सूचिका तथा । दशदलितगुरुणोद्दिष्टं नष्टं च षष्टकम् ॥ ४ ॥
भवन्ति प्रस्तारगताः षडिमे प्रत्ययाः खलु ।
( चत्वार आद्यासुरवेश्मनां च ) कर्तारएवामरवेश्मनां च दक्षाअपि प्रत्ययकान् षडेतान् ।
ये चैन जानन्ति गुरूपदिष्टास्ते सूत्रधारा रिपवः प्रजानाम् ॥
अपराजित उवाच -
सुरासुरनरादीनां भूषणानि कथं प्रभो । कथयस्व प्रसादेन सर्व विश्वजगत्पते ॥ १॥ विश्वकर्मोवाच
७६ अप.
-
भूषणानि तात वक्ष्ये आपादतलमस्तकम् । षोडशाभरणानीह कथितानि च पुत्रक ॥ २॥ नूपूरः पादकटकः प्रलम्बोदकमेव च ।
मेखलो कटिसूत्र ( तथा कट्यां ) हारो वक्षः स्थलालयः ॥ ३ ॥
मुक्ताफलानि सर्वाणि शुद्धा कर भवानी च । पाण्डयमातङ्गसौराष्ट्रे हैम सौपर कौशले ॥ ४ ॥
वेण्वात कलिङ्गे च वज्राकरसमुद्भवः ।
एभ्यो (एषु) मुक्तासमानानि शुद्धरतानि यानि च ॥ ५ ॥
अथवा चाहिमातङ्ग वाराहमत्स्यनक्रजाः ।
शङ्खजा वेणुजाश्चैव मुक्तानां (मध्ययोनता ?) योनय इमाः ॥ ६ ॥
निश्चलत्वमन्यूनत्वं निर्वाणत्वं सुगन्धिता ।
सुवेध्यं च मणि वीक्ष्म कण्ठे धार्य्यं च भूभुजैः ॥ ७ ॥
व्यङ्गितानि यदा तानि त्यजेदेतानि भूपतिः । पुराणि (रत्नानि ) सौम्यरूपाणि नृपार्थं हार उत्तमः ॥ ८ ॥
इति हारः ॥