________________
६०२
अपराजितपृच्छा पदक संप्रवक्ष्यामि सर्वरत्नैरलङ्कृतम् । धूली ? मरकतं चाद्यं तथा चैवं सपत्रकम् ॥९॥ कीटपक्षोऽपरः प्रोक्तो गरुडागार एव च। चत्वारो मणयः प्रोक्ताः सबै दुःखप्रणाशनाः ॥ १० ॥ पञ्चधा भाजिते क्षेत्रे पुन (नारद ? ) स्वेवं च पञ्चभिः । तन्मध्ये च महादिव्यं मरतं सुरवल्लभम् ॥ ११ ॥ . माणिक्यं पूर्वतो देशे दाडिमीबीजसप्रभम् । उदिता कर्कटच्छाया? उदितार्कसमन्छायं) प्रभामण्डलमण्डितम् ॥ १21 दृश्यते तत्तु माणिक्यं दक्षिण दिशमाश्रितम् । पद्मरागनिभं स्वच्छं दीपकांशु स्वभावकम् ॥ १३॥ अपरं च महादिव्यं माणिक्यं ब्रह्मवल्लभम् । सुस्निग्धं दुग्धवत्स्वच्छ दाडिमी कुसुमप्रभम् ॥ १४ ॥ तन्माणिक्यं तु कौवा शाश्वत शक्तिपूजने । दक्षिणोत्तरप्राचीषु नीलं वै वज्रवत् क्रमात् ॥ १५ ॥ तन्मध्ये विदिशायां च वज्रं शक्रस्य वल्लभम् । पद्माकारं घृतं दद्यात्परिधौ नालरूपकम् ॥ १६ ॥ विचित्रकण्टकैर्युक्तं पञ्चशाखा ( पत्रशाखा ) विभूषितम् । दण्डशङ्खलरूपं च खचितं चित्ररत्नकैः ।। १७ ॥ लशुनं मध्यभूमौ स्याध्ददयानन्द कारकम् ।
इति पदकम् ॥ श्रीवत्सं संशवक्ष्यामि सदा विष्णोश्च वल्लभम् || १८ ॥ चतुरस्र समं कृत्वा रसभागविभाजितम् । चतुष्पदं च मध्यस्थं रमणं ? कलिकोद्भवम् ॥ १९ ॥ बागपत। दिशायां च चतुर्भागैश्चतुर्दिशम् । कोणे पदानि चत्वारि दिशायां मूनि पत्रकम् ॥ २० ॥ क्षिपेत्समस्तगर्तेषु शुची:राहकर्णिकाः। तन्मध्ये च महारत्नं सर्वलक्षण संयुतम् ।। २१ ॥ तस्याऽधः पङ्कज दिव्यमपत्रं सकेसरम् । मृणालग्रन्थिवल्लकिं कन्दं कलिविभूषितम् ॥ २२॥ वर्तना कथिता सा तु कथ्यते तेऽधुना पुनः । क्षेपगर्भ (र्त) क मध्यस्थं मध्ये चोपाश्रयं क्षिपेत् ॥ २३ ॥ सोमकान्ति तस्योपरि सुधाधौतं सदासितम् ?। वर्णानुक्रमपरिधौ धूल्याधं गरुडान्तगम् ॥ २४ ॥ तदुपरि पत्रवल्ली पुष्पराग चतुष्टयम् । कोणस्थानेषु वैडूर्यचतुष्कं विघ्ननाशनम् ॥ २५ ॥