________________
षोडशाभरणलक्षणं षट्त्रिंशदुत्तरद्विशततमं सूत्रम् ॥ .. चक्रकोणेषु सर्वेषु निक्षिपेत् परिधौ क्रमात् । पौंडू मातङ्गसौराष्ट्रहमसापरिकोशलाः ॥२६॥ वेवातरं कलिङ्गश्च वज्रस्याष्टौ तथा कराः। वर्णानुक्रमकं वक्ष्ये विप्रशूद्रान्तजातिषु ॥ २७ ॥ बासः ? (मुक्ताः) कलशितोषै......रस्नदोषः (रत्नदोषस्तुदुःखदः) । पद्मरागस्तथा पुष्पं महानीलं सुनीलकम् ॥ २८ ॥ इतः परं ३८ श्लोकान्तं न लभ्यते ।
....................रायेत् । तदधस्तान्मृणालं च कण्टकैकलिक ? (कण्टककाल) भूषितम् ॥ ३९ ॥ मध्यभूमौ समस्तायां पत्रपङ्क्तिविराजितम् । दिक्स्थानेषु स्थितं बाह्ये पद्मराग चतुष्टयम् ॥ ४० ॥ महारत्नेन्द्रनीलाश्च चत्वारश्च चतुर्दिशम् । अपीच कोणपत्रेषु पुष्परागास्तथोदिताः ॥ ४१॥ तमध्यतो वै शिरीषशाखापत्रविराजितम् । समस्तं हारकर्बद्धं मुक्ताभिर्मणभिस्तथा ॥ ४२ ॥ विचित्रपत्रसंयुक्तमूचे कुर्यात् सुरूकपम् । दण्डस्तु भागविस्तीणों द्विभागश्चोय॑तो भवेत् ।। ४३ ॥ उपान्तं गर्तसम्पन्न हीरकैः खचितं तथा । अन्तरे तस्य माणिक्यमुदितार्कसमप्रभम् ॥ ४४ ॥ उपाश्रयं च संक्षिप्य न्युप्तं वारामिवर्जितम् ? । रढत्वं च मृदुत्वं च मृणाल कमलोपमम् ॥ ४५ ॥ ईदृशं च महालिङ्गमपांपतिसमुद्भवम् । ह(त) पद्मोपरिस्थाप्यः सौम्यकान्तिश्चिन्तामणिः ॥ ४६॥ दुर्लभः कौस्तुभश्चायं सुरासुरनरोरगैः । सौम्यकान्ति विना विष्णुं नाऽपि देवरयाप्यते ॥४७॥
इति कौस्तुभः॥ प्रथम शिशुपत्रं च सकलं च द्वितीयकम् । स्वस्तिकं तु तृतीयं च वर्द्धमानं चतुर्थकम् ॥ ४८ ॥ तथाऽन्यत्सर्वतोभद्रं पञ्चपत्रमिति स्मृतम् । क्षीरार्णवसमुत्पन्नं मुद्रारूपं तथोत्तमम् ॥ ४९ ॥ हेममयानि सर्वाणि चितानि मणिरत्नतः । हदि कण्ठे तथा मूर्ध्नि सदा धार्याणि भूपते ॥ ५० ॥
इति पत्राभरणम् ॥ . मुकुटं सप्रवक्ष्यामि ज्येष्ठमध्यकनिष्टिकम् । शेखरं प्रथमं नाम किरीटं च द्वितीयकम् ॥ ५१ ॥