________________
६०४
अपराजितपृच्छा तृतीयं चाऽमलसारं मूले मुकुटमण्डनम् । शेखर शिखराकारमगत्रयविभूषितम् ।। ५२॥ तन्मध्ये च महारत्नं वज्रं वै रुद्ररूपकम् । मरक्त वामदेशे च साक्षा? विष्णुदैवतम् ॥ ५३ ॥ दक्षिणे पद्मरागं च पुरुषाख्यवपुः कृतम् । त्रिभिः शुगै रत्नमयं मूलदेशे प्रपूजितम् ॥ ५४ ।। . सदाशिवो मध्यपट्टे श्रेणीयुक्तश्च मण्डितः। पद्मरागैश्च मणिभि रिन्द्रनीलादिभिस्तथा ॥ ५५ ॥ पूरिताहीरककणैः समस्ता खचिता मही । पत्रवल्ली त्रिभगी च कर्णिका कलिकैर्युतम् ॥५६॥ शेखरं शीर्षके पूज्यं नरेशस्य भवेत्सदा ।
इति शेखरः॥
........... ॥ ५७ ॥ (लुप्तम्) अतो वक्ष्यामि मुकुटं तथा सुरगणाचितम् । पढें शशिप्रभाभं च शृगपञ्चकसंयुतम् ॥ ५८ ।। शृङगाण्युपरि चत्वारि त्रीणि चैव तदूर्ध्वतः। शङ्गद्वयं तत्परं तदुपयेकं च शृङ्गकम् ॥ ५९ ॥ शङ्गाणि चैव कार्याणि मणिमि भूषितानि च । हीरकेण समायोज्य पत्रवल्लीसमन्वितम् ॥ ६०॥ तत्रमध्ये महादिव्यं सोमकान्तिमणिं तथा । धृतं तद्वै) शिरसि सम्पूज्यं मुकुटं च किरीटकम् ॥ ६१ ।।
इति किरीटमुकुटः ॥ वक्ष्येऽथामलसारं च मुकुटं दवदुर्लभम् । अर्धचन्द्राकृतिपट्ट मुक्तापोडशकावृतम् ॥ ६२ ॥ पश्चाण्डकमयं दिव्यं सर्वरत्नविराजितम् । खचितं हीरकैः सर्व वैडूर्यमणिमध्यगः ॥ ६३ ।। मुक्ताफलमयी श्रेणि रण्डकैरावता सदा । वज्रवैडूर्यगोमेदपुष्परागेन्द्रनीलकाः ।। ६४ ।। एते पञ्च महापुण्या उपर्युपरितश्चिताः। पञ्चरत्नमिदं- दिव्य स्वयमेव सदाशिव. ।। ६५ ॥ समस्तेषु च कोणेषु कर्केत लशुनं तथा । बार्यन्तरे समस्ते च पत्रवल्ली विराजिता ॥ ६६ ॥ विद्रुमश्च महानीलं कोणगं (अ) खचितं सदा । महातेजः सूर्यकान्ति मौलिमध्ये च पुष्पकम् ।। ६७ ॥ परीक्ष्यमानि रत्नानि यानि शुद्धानि लानि च । ग्राह्य णि सूत्रधारेण मुकुटार्थ नृपस्य च ॥ ६८ ॥