________________
६०५
षोडशाभरणलक्षणं षट्। दुत्तरद्विशततम सूत्रम् ।। मुकुटं दिव्यरूपं च शिरस्युपरि धार्यत । सुरभूमिपतीनां च ह्यन्येषां मुकुट न हि ॥ ६९ ॥
इत्यामलसारमुकुटः॥ कण्ठाभरणकंज्ञेयं मुक्ताफलमय शुभम् । तन्मध्ये पद्मरागं च सूर्यतेजः समप्रभम् ॥ ७० ॥
इति कण्ठः॥ ततो बाहुबलं वक्ष्ये सर्वसौभाग्यदायकम् । मध्यदेशे मरकतः परिधौ सर्वरत्नकम् ॥ ७९ ॥ हीरकैः खचितं सर्व शिशुपत्रविराजितम्। क्षिपेत्समस्तगतेषु माणिक्यमणिकादिकम् ॥ ७२ ॥ उपाश्रयस्य चोत्तों ? पद्मरागमधः स्थितम् । कोमल ललितं नालं हीरकः खचितं तथा ॥ ७३ ॥ बद्ध बाहुबले चाऽस्क्षियो भूपस्य जायते । भुजे सम्पूज्य माणिक्यं सुर्यतेजो द्युतिः सदा ॥ ७४ ।।
इति बाहुबलः॥ कुण्डले मुंकुटं चैतच्छमारार्थ त्रिकं सदा । मुक्ताफलमयी वल्ली चामीकरं तस्यान्तरे ॥ ७५ ॥ एषां गतेषु सर्वेषु हीरक क्षेपयेत्सदा। पद्मरागं तस्य मध्ये दिव्यकान्ति सुतेजसम् ।। ७६ ॥
इति कुण्डली॥ योज्यं च कङ्कणं बाहो नवरत्नमयं शुभम् । हीरकं पद्मरागंच महानीलंच मौक्तिकम् ॥ ७७ ॥ मरक्तं विदुमं पुष्पं गोमेदं हसन (लशुनं) तथा । एतेभ्यश्च महादिव्या ग्रहाश्चैव यथा प्रभाः ॥ ७८ ।। यद्धस्ते कङ्कणं दिव्यं शुद्धरत्नैः समावृतम् । तस्य गेहे महापीडा न भवन्ति कदाचन ॥ ७९ ॥ गाङ्गेयं निकषे शुद्धं दिव्यं.........अन्धितम् । महारत्न तस्य मध्ये माणिक्यं वामदक्षिणे ॥ ८० ॥ परिधौ हीरक चैव तीक्षगधाराविवर्जितम् । हस्तकंडं शशंभाव तंच पुरविश्वक निर्मितम् ? ॥ ८१ ॥ तन्मध्ये पद्मरागं मरतं वामदक्षिणे । मुक्ताश्च वामदेशे तु शुद्धशङखलमेवच ॥ ८२॥ हारकङ्कणनिबद्धं मध्यदण्डसकेवलम् ?। करपा च तन्नाम करालकार उसमः ॥ ८३॥
इतिनवग्रहकङ्कणम् ।।