________________
६०६
अपराजित पृच्छा
रामचन्द्रं प्रवक्ष्यामि हस्तकाब्जस्थितं सदा । तन्मध्ये च महादिव्यं माणिक्यं सूर्यसन्निमम् ॥ ८४ ॥ अप्रपत्र क्षिपेद् गर्भे संकीर्ण हीरकैस्तथा । कणांश्च पूरयेत् सर्व ? पत्रपत्रेष्वयं विधिः ॥ ८५ ॥ कलितं कलिकाभिश्च चामीकरं करं तथा । इदं खङ्गं महादिव्यं सर्वपापप्रणाशनम् ॥ ८६ ॥ इतिरामचन्द्रखड्गम् |
मस्तके मध्यतः कुर्यादुभयो हरिकं तथा । मृणालदण्डसदृशं कार्य चैत्राङ्गुलीयकम् ॥ ८७ ।।
इत्यङ्गुलिकम् ।।
मरतं पद्मरागं च हीरकं दक्षिणोत्तरे । हरिब्रह्मात्मकं नाम युगलं च तदुच्यते ॥ ८८ ॥
इति युगलाङ्गुलिकम् ॥ सोमकान्तिर्यदा मध्ये मरतं दक्षिणे स्थितम् । माणिक्यमुत्तरे देशे उक्तं त्रिपुरुषं च तत् ॥ ८९ ॥
इति टीकात्रिपुरुष |
मरतं पुष्परागश्च माणिक्यं मौक्तिकं तथा । हीरकं च यदा मध्ये आङ्गुष्ठं तत्सदाशिवः ॥ ९० ॥
इत्याङ्गुष्ठम् ॥
कनिष्ठां मुक्ताफलं चक्रसद्य इति प्रभा । मृणालदण्डसदृशं तदर्धाङ्गुलिकं कृतम् ॥ ९१ ॥
इत्यर्धाङ्गुलिकम् ॥
अन्योन्यतः स्थिते वज्रे तद्धारा प्राङ्मुखी तथा । सा विशेया वज्रधारा इन्द्रकान्त ? युतिप्रभा ! ॥ ९२ ॥ इति वज्रधारा ॥
शुद्धस्यान्मणी सर्वे निर्दोषा हेमसंयुक्ताः ? | तस्य तुष्यन्ति देवाचै येन चाङ्गुलिका धृता ॥ ९३ ॥
इत्यङ्गुलिका |
सर्वरत्नमयं दिव्यं पूरितं हेरेकैः कर्णः । कुण्डलं तदिति प्राज्ञैर्वासुदे (स्तुत्रे) वे (दे) उदाहृतम् ॥ ९४ ॥
इतिकुण्डलम् ॥
पादाङ्गुलीषु सर्वासु मुद्रिका रत्नवर्जिताः । यः कुर्यादन्यथा मूढस्तत्पादौ छेदयेन्नृपः ॥ ९५ ॥
इति पादमुद्रिका ।
क्रोध लोभभयान्मोहात् पादे रत्नं करोति यः । करौ पादौ शिरस्तस्य छेद्यं भूपतिना तथा ॥ ९६ ॥