Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra
View full book text
________________
(२३२) लेपकर्म द्वात्रिंशदुत्तरद्विशततमं सूत्रम् ॥
-
-
-
-
-
विश्वकर्मोवाच
लेपकर्म प्रयक्ष्यामि यदुक्तं पूर्वमेय हि । श्वेतां रक्ता तथा पीतां मृत्तिकां च समाहरेत् ॥ १ ॥ कापिलं तु घृतं क्षीरमतसीमाथ मेव च। यवगोधूमचूर्ण तु वर्ण च वसुकघृतम् ! ॥२॥ क्षीरवृक्षत्वचा ..( मिथं ) बकुलं गुडसंयुतम् । सेन्द्रवक्षं प्रेषणीय मासं वा पक्षतोऽधिकम् ॥ ३॥ पाषाणगर्भचूर्ण तु सूक्ष्म कृत्वा समस्तकम् । पट्टत उद्धरेटेप ( कल्कं ) मर्दयेत्तैलवारिभिः ॥४॥ प्रक्षिप्तातसीतैलेन सुपिष्ठं कजलोपमम् । पिण्डान्कृत्वा मुष्टिमात्रानातपैः शुष्कतापितान् ॥ ५॥
आस्फोटिते वनसमाः आतय: सिद्धिकामदः । अतस्तु स्फुटिते पिण्डे बन्धद्रव्यादिकं क्षिपेत् ॥ ६॥ शु (सु) द्धा (धा) याश्च प्रवक्ष्याभि बन्धनं दुलनं तथा । शैलजा बन्धका वापि श्वेताः पाषाणकोत्तमाः॥७॥ खण्डशश्चैव कर्तव्या प्रमाणे धात्रिकोपमाः। सुसंचिताः क्रमैयुक्ता आणात्पलान्तरै ॥ ८॥
( आनेया उपलान्तरे ) इति स्यात् ।।
.................... । ............................................. ॥९॥ .......................। (लुप्ताः )
॥१०॥ तथा वरेष्टिकामध्ये आधारानि सुवि......(क्षिपेत् )। समस्तं ज्वालयेन्मध्ये यावदूदशनिशान्तकम् ॥ ११ ॥ मल्लिकायावकं कृत्वा स्थूणिकाकारमस्तकम् । क्षिपेन्दिल्वरसाद्य च मासं वा पक्षतोऽधिकम् ।। १२ ।। शिलोत्थार्धकयुक्तं च ! मईयेच्छुद्धयोत्तमा (सुधयोत्तमा)। विचारा उत्तमाख्याता रूपार्थेन चतुर्थिका ? ॥ १३ ॥ अचारूपोद्भवाकार्या मानयुक्तिश्च शास्त्रतः। सन्चित्य स्विष्टिकाबन्धं हस्तपादशीर्षादितः ॥ १४ ॥ सूक्ष्मे तु वङ्गुलो लेपः स्थूले त्वगुलमात्रकः । दिनेधे च दिनान्ते वा दयाल्लेपानुलपनम् ॥ १५ ॥

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810