Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 768
________________ अपराजितपृच्छा नन्दादिक्रमयोगेन तथा चन्द्रकलाक्रमः । दिनपत्रोद्भवस्त्वेवं सङ्गख्यातो दशपञ्चभिः ॥ १७ ॥ नन्दा भद्रा जया रिक्ता पूर्णास्यात् पञ्चमी तथा । पञ्च पञ्च तथा पञ्च मासार्धे तु यथा यथा ॥ १८॥ नन्दायाः शिशुपत्रं च भद्रायाः सकलं तथा । स्वस्तिकं तु जयायाश्च रिक्ताया वर्धमानकम् ॥ १९॥ पूर्णायाः सर्वतोभद्रं पञ्चमं परिकीर्तित्तम् । षष्ठिकादि दशम्यन्तमन्यपञ्चसमुद्भवः ।। २० ॥ जयं च विजयं चैव उद्तं पत्रमक्षयम् । सर्वमङ्गल भवाख्यं पञ्चान्ये च प्रकीर्तिताः ॥ २१ ।। षष्ठयाधं च दशम्यन्तं पत्राणां पञ्चकं तथा। पुनरन्यानि पञ्चैकादशाद्य पूर्णान्तं तथा ॥ २२ ॥ श्रियं श्रियो वाख्यं च रत्नगर्भ तेजोभवम् ।। सर्वानन्दं महोत्साहं पत्राणां दशपञ्चकम् ।। २३ ।। घसन्ते नागरं पत्रं द्राविडं ग्रीष्मके तथा। वर्षासु व्यन्तरभवं वेसरं च शरदतो ॥ २४ ॥ हेमन्ते चैव कालिङ्ग यामुन शिशिरोद्गतम् । षड्तूभवपत्राणि सर्वाणि शुभदानि च ।। २५ ।। तथा शाखोद्भवं पत्रमुक्त दशविधं क्रमात् । शाखोद्भवानि पञ्चैव ( षट्चैव ) कन्दजानि तु षोडश ॥ २६ ॥ तथा चाकारपत्राणि लक्षकोट्यादिकानि च । पुनरन्यानि वक्ष्येऽहं प्रकारैः पञ्चतानि च ॥२७॥ हंसपत्रं नक्रपत्र मत्स्यपत्रं च कूर्मकम् । पनपत्रं तथा चैव पञ्चकं जलजं भवेत् ॥ २८ ॥ स्थलजं छन्दजाकारं प्रासादगृहकादिकम् । नरनार्यादिकं पत्रं नरपत्रं च पश्चमम् ॥ २९ ॥ गजपत्रमश्वपत्र जानुगं पद्मजं तथा। सिंहासनादिपत्रं च गजपत्रं तु पञ्चकम् ॥ ३० ॥ अनेकाकारपत्रं च मेघपत्रं तथैव च । पत्राकारास्तथा चैते कथितास्त्वपराजित ॥ ३१॥ पुनः स्थानेषु सर्वेषु तत्र पत्राणि योजयेत् । स्तम्भेषू द्वारपक्षेषु प्रासादेषु च सर्वतः ॥ ३२ ॥ षोडशाभरणश्चैव तत्र पत्रं तु दापयेत् । हारकेयूर कङ्कणकटिसूत्रादिभिः समः ॥ ३३॥ यत्र स्थाने भवेत्पत्र लक्ष्मीस्तत्र हितेक्षणा । (नाभ्यचित्रोद्भवा ? ) नाऽपत्रतो भवेल्लक्ष्मीः शुभस्थानं च पत्रतः॥ ३४ ॥ इति सूत्रसन्तानगुण कीर्तिप्रकाशप्रोक्त श्रीभुवनदेवाचार्योक्तापराजितपृच्छाया चित्रपत्री त्पत्तिनिर्णयाधिकारो नाप सप्तविंशत्युत्तर द्विशततमं सूत्रम् ।।

Loading...

Page Navigation
1 ... 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810