Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 764
________________ (२२६) स्वच्छन्दभैरवावतारो नाम षड्विंशत्युत्तर द्विशनतमं सूत्रम् ।। विश्वकर्मोवाच स्वच्छन्दभैरवक्ष्ये आयुधानां तथा क्रमम् । गदा पट्टिशपर्श च शक्तिर्वाणो धनुस्तथा ॥१॥ पुष्पाक्षसूत्रसश्चि बीजपूरकमुद्गरौ। चषकं अर्थ शतनी कोशं डमरुमौशले ॥२॥ शुचिस्तथा च खण्डेन्दुः पीयूषं दर्पणादिकम् । वामोर्ध्वक्रमेणैव गदाद्या दर्पणान्तगाः ॥३॥ वरदं शशिनी खङ्गश्चाङ्कुशं ज्ञानपुस्तकम् । चामरं पूर्णकलशं शूलं खट्वाङ्गमेव च ॥४॥ न च चक्षुः ? (अभयं च ) विषं कुण्डी शर्ख शूर्पश्च मोदकम् । मद्यपात्रं वस्त्रवजौ कमलं चक्रकीरके ॥ ५॥ परदाद्याः शुकान्ताश्च दक्षिणेषु प्रदक्षिणम् । योनिमुद्रासंयुतौ द्वौ करौ सकरमुद्रिकौ ॥६॥ उपास्ते चाऽऽदिपुरुषं द्वौ भुजौ शिरसि स्थितौ । पञ्चास्यश्च त्रिनेत्रश्च शतार्ध भ्रामयन करान् ॥ ७ ॥ अर्धद्वयमजुगतं बद्धपद्मासनद्वयम् । स्वच्छन्दभैरवो माने तालानां त्वेकविंशतिः ॥८॥ ततस्तालांस्तु गुणयेद द्वादशाङ्गुलकैस्तथा। तदगुलप्रमाणेन द्विपञ्चाशच्छतद्वयम् ॥९॥ प्रथम पङ्क्तौ नवास्यं जटायुक्त द्वितालकम् । द्वितीयपङ्क्तौ तत्समा शिवयोनिः सदोदिता ॥ १० ।। सप्तवत्राणि तस्योध्ये तालमेकं द्विजोत्तम । शिरोविंशत्यगुलकं ग्रीवा चाष्टाङ्गुला मता ॥ ११ ॥ द्वात्रिंशन्नाभिदेशस्तदधो गुह्य तु विंशतिः । शून्य बाणा भवेजङ्घा गुल्फः पञ्चागुलस्तथा ॥ १२ ॥ पश्चाशञ्चैव नलकः सप्ताइगुलस्तलोच्छ्यः । ऊर्ध्वमानं तु कथितं तिर्यक् च शृणु सम्प्रति ॥ १३॥ मुखं पूर्वोक्तमानेन द्वितालं चैव मध्यकम् । दशाङ्गगुलं तनुबाह्ये बाहुः षोडश विस्तरे ॥ १४ ॥ चतुर्दश तथा चाष्टौ क्रमतो बाहु विस्तरः । नाना विस्तरितं कार्यमष्टाविंशतिभिस्तथा ॥ १५ ॥ सप्तवर्णाः कुशमानं कटिविस्तरत: शुभम । द्वितालं जङ्घाविस्तारस्तन्मध्य सार्धभागकम् ॥ १६॥

Loading...

Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810