________________
(२२६) स्वच्छन्दभैरवावतारो नाम षड्विंशत्युत्तर द्विशनतमं सूत्रम् ।।
विश्वकर्मोवाच
स्वच्छन्दभैरवक्ष्ये आयुधानां तथा क्रमम् । गदा पट्टिशपर्श च शक्तिर्वाणो धनुस्तथा ॥१॥ पुष्पाक्षसूत्रसश्चि बीजपूरकमुद्गरौ। चषकं अर्थ शतनी कोशं डमरुमौशले ॥२॥ शुचिस्तथा च खण्डेन्दुः पीयूषं दर्पणादिकम् । वामोर्ध्वक्रमेणैव गदाद्या दर्पणान्तगाः ॥३॥ वरदं शशिनी खङ्गश्चाङ्कुशं ज्ञानपुस्तकम् । चामरं पूर्णकलशं शूलं खट्वाङ्गमेव च ॥४॥ न च चक्षुः ? (अभयं च ) विषं कुण्डी शर्ख शूर्पश्च मोदकम् । मद्यपात्रं वस्त्रवजौ कमलं चक्रकीरके ॥ ५॥ परदाद्याः शुकान्ताश्च दक्षिणेषु प्रदक्षिणम् । योनिमुद्रासंयुतौ द्वौ करौ सकरमुद्रिकौ ॥६॥ उपास्ते चाऽऽदिपुरुषं द्वौ भुजौ शिरसि स्थितौ । पञ्चास्यश्च त्रिनेत्रश्च शतार्ध भ्रामयन करान् ॥ ७ ॥ अर्धद्वयमजुगतं बद्धपद्मासनद्वयम् । स्वच्छन्दभैरवो माने तालानां त्वेकविंशतिः ॥८॥ ततस्तालांस्तु गुणयेद द्वादशाङ्गुलकैस्तथा। तदगुलप्रमाणेन द्विपञ्चाशच्छतद्वयम् ॥९॥ प्रथम पङ्क्तौ नवास्यं जटायुक्त द्वितालकम् । द्वितीयपङ्क्तौ तत्समा शिवयोनिः सदोदिता ॥ १० ।। सप्तवत्राणि तस्योध्ये तालमेकं द्विजोत्तम । शिरोविंशत्यगुलकं ग्रीवा चाष्टाङ्गुला मता ॥ ११ ॥ द्वात्रिंशन्नाभिदेशस्तदधो गुह्य तु विंशतिः । शून्य बाणा भवेजङ्घा गुल्फः पञ्चागुलस्तथा ॥ १२ ॥ पश्चाशञ्चैव नलकः सप्ताइगुलस्तलोच्छ्यः । ऊर्ध्वमानं तु कथितं तिर्यक् च शृणु सम्प्रति ॥ १३॥ मुखं पूर्वोक्तमानेन द्वितालं चैव मध्यकम् । दशाङ्गगुलं तनुबाह्ये बाहुः षोडश विस्तरे ॥ १४ ॥ चतुर्दश तथा चाष्टौ क्रमतो बाहु विस्तरः । नाना विस्तरितं कार्यमष्टाविंशतिभिस्तथा ॥ १५ ॥ सप्तवर्णाः कुशमानं कटिविस्तरत: शुभम । द्वितालं जङ्घाविस्तारस्तन्मध्य सार्धभागकम् ॥ १६॥