________________
५८१
अपराजितपृच्छा कणिबध ? तप्ताधौ च चतुर्विशतिरङ्घ्रिकम् । तोणी? मात्रं तथाङ्गुष्ठं शेषाः सार्धाशला मता ।। १७ ।। षोडशाङ्गुलमंसास्याद् भुजसन्धिमुनिद्वयम् । द्वात्रिंशच पुनर्वात्या चतुर्विंशतिकाग्रतः॥ १८॥ पूर्वोक्तेन प्रमाणेन कर कुर्यात् प्रयत्नतः। . द्वात्रिंशल्लक्षणोपेतो रुद्रः स्वच्छन्दभैरवः ॥ १९ ॥ पाशाङ्कुशधनुर्वाणा: शलवज्रगदाभयम । अष्टौ भैरवरूपाणि कुर्यादेव प्रदक्षिणम् ॥२०॥ सूत्रधारस्ततः प्राज्ञ शुक्लाम्बरधरः शुचिः । हविष्यनियताहाये जपहोमपरायणः ॥ २१ ॥ सुसमीक्ष्य प्रदेशं तु कुङ्कुमा सुसिश्चितम् । इमं मे गङ्गे यमुनेऽ भिषिच्य सलिलैः शुभैः ॥ २२ ॥ कारयेन्मण्डपं पूर्वमाशाखाविनिर्मितम् । उत्तराभिमुखो विश्व कर्मरेखाको धृतिः ॥ २३ ॥ अग्न आयाहि मन्त्रेण रेखास्तत्र प्रयोजयेत् । योगायोगेति मन्त्रेण कर्मसूत्रंसमारभेत् ॥ २४॥ अग्निज्योतिर्हि मन्त्रेण टकिकाग्रं च संस्पृशेत् । प्रज्वलद्विन्पसेदत्रं टकाने सर्वतोमुखम् ॥ १५ ॥ अमृतीशं हम्यंदये न्यस्य ? अस्त्रेणोज्वलति तदा । आदेव इति मन्त्रेण पुनः पठति टकिकाम् ॥ २६ ।। शिल्पिनो भोजयेत्तत्र वस्त्रालङ्कारसंयुतान् । ब्राह्मणाम्भोजयेत्तत्र शुद्धसैन्य तपस्विनाम् ॥ २७ ।। भूरि (मि) दानं ततः कुर्याद् भूत्वा चाऽकृपणस्तथा । समाचरेत्कर्म तत्र कृत्वा पञ्च महोत्सवान ॥२८॥ यस्य देवस्य या मूर्तिश्चिन्तयेत्तां हृदम्बुजे । उमान्माहं देहिनां जन्त्रवाहक ॥ २९ ॥ व्याहरेत्रिषु लोकेषु यस्य कस्यचिदामयम् । तस्मात् सर्वेषुमन्त्रेषु हंसो बीजः स उच्यते ॥ ३० ॥ हंसः सदाशिवोदेवो हंसश्चैवेश्वरो हरिः। ब्रह्मा हंसो यमः सूर्योऽग्निहंसः सर्वदैवतम् ॥ ३१ ॥ आपो वायुश्च खं हंसो धर्मेन्दो धनदः क्षितिः । ध्रुवं ते हंसमित्येव गतो हं मिगतानि च ? ॥ ३२॥ एवं स गतो हंसः सर्वारमा परंपरा ?।। हंसे लीना पराशक्तिरित्यर्थ व्याहरन्ति च ॥३३॥ वर्णा एकोनपञ्चाशनिधनं यान्ति तत्र वै। निधनान्ते तु विज्ञेया वर्णास्ते तु महेश्वरः ( गत् ) ॥३४॥