________________
अपराजितपृच्छा सप्तताला मानबाश्च अष्टांशा दिव्ययोषितः । नवांशा सर्वदेवाश्च सम्प्रोक्ता वै तथैव च ॥ १६ ॥ दशतालो भवेद्रामो विष्णुवैरोचमस्तथा। सिद्धा स्तथा जिनवरा-स्तथा कार्या दशांशतः ॥ १७ ॥ एकादशांशा रुद्रश्च भूतानि च तथैव च । द्वादशांशा मधुमुरौ वैताला रूपतो मताः ॥ १८ ॥ प्रयोदश राक्षसानां दानवानां चतुर्दश। तालाः पञ्चदश प्रोक्ता श्वामुण्डा भृगुरूपकः ॥ १९ ॥ जटामुकुटचन्द्रालङ्कृताः षोडश तालतः। कार्याः षोडश तालान्ताः शास्त्रतो नाधिकास्ततः ॥२०॥ युगांजीव संख्यात् सागरात् पृथिव्यांत मध्यगा? । वेद ब्रह्मा दू धर्मज्ञानस्य साधनम् ? ॥ २१ ॥ जयतु सर्वशास्त्र धरित्र्यवेदिव्यधरा ?। कथयस्यानुगमनं च वर्णानुरूपकाः?॥ २२ ॥ अपराजित मद्वाक्यं हृदयानन्दन शणु । प्रतिमा लक्षणं प्रोक्तं कथयिष्यामि वर्णकम् ॥ २३ ॥ सौवर्णी राजती ताम्री पैत्तली तिकी तथा। शैशकी वै कांस्यमयी कृष्णलोहमयी तथा ॥ २४ ॥ अष्टधातु भवाः प्रोक्ताः कर्तव्याः सर्वकामदाः । तथा च मत्तिकामय्यः काष्ठमय्यो यथाक्रमम् ॥ २५ ॥ पञ्चगव्यं चम्पपुष्पं श्रीखण्डं पायसं तथा । सौगन्धिकं चामरादि रकचन्दनमेव च ॥२६॥ महे चोमामहेशस्य शुभ कार्य यथाक्रमम् । पूर्वोक्ताः काष्ठमय्यश्च शुचीकार्य नियोजिताः ।। २७ ।। मणिरत्नप्रवालश्च वज्र वैडूर्यमौक्तिकैः। हैमैस्तारैः शाणशुद्धै राजावत॑श्च स्फाटिकैः ॥ २८॥ गृहेषु प्रतिमाः पूज्याः शेषाः प्रासादसंशके।
भी सपीठिका कार्या वैपरीत्ये महद्भयम् ॥ २९ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां चित्रप्रतिमाताल
निणयाधिकारो नाम पञ्चविंशत्युत्तर द्विशततमं सूत्रम् ।।