________________
(२२५) चित्रप्रतिमातालनिर्णयो नाम पञ्चविंशत्युत्तर
द्विशततमं सूत्रम् ॥
अपराजित उवाचहैमादावष्टलौहेषु रत्नधातुभवेषु च। पाषाणष्टिककाष्ठेषु मृण्मयादी समस्तके ॥१॥ एतत्समस्तचित्रेषु चित्ररूपं तु कीदृशम् ।। कथयस्वप्रसादेन विश्वकृत् त्वं जगत्पते ॥२॥ विश्वकर्मोवाचपट्टपाषाणफलके वास्तुवस्तु विशेषतः । मृत्तिकादौ दन्ते काष्ठे रत्नधातृद्भवे तथा ॥३॥ इत्थं समस्तद्रव्येषु चित्ररूपसमुद्भवः । तद्रपकमयुक्तीश्च शृणु चैकाग्रमानसः ॥४॥ अपराजित भो प्राज्ञ सर्व शा (श ) स्त्रादिकौशलम् । चित्र विचित्रागमतः सम्प्रोक्ताः प्रतिमास्तथा ॥५॥ भास्करोदयनादिष्ट-दीप्ति रश्मिप्रकाशतः । जालान्तरगतो रेणु दशने च पृथक् पृथक् ॥ ६॥ उहिष्टं परमाण्वादि-प्रमाणं च समन्ततः। परमाण्वष्टक रेणुः केशानं च तदष्टतः ॥७॥ अष्ट्राष्टगुणनादेवं केशाग्रं च प्रसिद्धयति । अष्टकेशाग्रतो लिक्षा यूका चैव तदष्टतः ॥ ८॥ अष्टाभिश्चैव यूकाभि यवश्चैवं प्रसिद्धयति । तथागुलं चाष्टयवः प्रतीतं तत् प्रागुवधः ॥ ९॥ रूपमानमितिप्रोक्तं परमाण्वादि कल्पितम् । मूलमानं प्रोक्तमथो तनुभानविनिर्णयम् ॥१०॥ अङ्गुलोद्भवमानं तु स्यामात्रागुलसंज्ञकम् । कला द्विमात्रा कथिता सैव गोलक उच्यते ॥११॥ द्विमानं गोलकं विद्याद भागं चैव द्विगोलतः। भागं त्रिगुणितं ताल स्तन्मानात् प्रतिमा त्रिधा ॥ १२ ॥ मानं तालात्मकं यत्तन् मूर्जिवसमुच्छ्यः । पृष्ठाद्यगुलतः कार्य ताल सूत्रे प्रसिद्धयति ॥ १३॥ ज्ञेयं ताल कीर्तिवक्त्रं तथा जलचरा मताः। विहङ्गाश्च द्वितालाः स्युः कुञ्जराश्च त्रितालकाः ॥ १४ ॥ चतुस्तालाश्च तुरगाः किन्नराः पञ्चतालकाः। गणनाथश्च षट्तालो यक्षाश्चैवं प्रकीर्तिता; ॥१५॥