________________
अपराजितपृच्छा ब्रह्माण्डादिगणा: सर्वे तद्रपाः पिण्डमध्यगाः । आत्मा चात्मस्वरूपेण चित्रवत् सष्टिकर्मणि ॥ १७॥ आत्मरूपमिदं पश्येद् दृश्यमानं चराचरम् । चित्रावतारे भावं च विधातु भविवर्णतः ॥ १८ ॥ आत्मानं च शिवं पश्येद् यद्वय्य जलचन्द्रमाः । तद्वचित्रमयं सर्च शिवशक्तिमयं परम् ॥ १९ ।। ऊर्ध्वमूलमधः शाखं वृक्षं चित्रमयं तथा । शिवशक्तयालयं चैव चन्द्रार्कपवनात्मकम् ॥ २० ।। सूर्यपीठोद्भवा शक्तिः संलग्ना ब्रह्ममार्गतः । लीयमाना चन्द्रमध्ये चित्रकृत् सृष्टिकर्मणि ॥ २१ ॥ चित्रावताररूपं तु कथितं च परात्परम् । यतस्तु वर्तते चित्रे जगत्स्थावरजङ्गमम् ॥ २२ ॥ देवोदेवी शिवः शक्तिः व्याप्तं यतश्चराचरम् । चित्ररूपमिदं शेयं जीवमध्ये च: जीवकम् ॥ २३ ॥ कूपो जले जलं कूपे विधिपर्यायतस्तथा। तहच्चित्रमयं विश्व चित्रं विश्वे तथैव च ।। २४॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचायोक्तापराजितपृच्छायां
चित्रसद्भावनिर्णयाधिकारो नाम चतुर्विशत्युत्तर द्विशततमं सूत्रम् ॥