________________
(२२४) चित्रसद्भावनिर्णयो नाम चतुर्विंशत्युत्तर द्विशततमं सूत्रम् ॥
अपराजित उवाच ।
भुवनेशं देवदेवं सप्तलोकजगत्पतिम् ।
महातेजचित्ररूपमनाद्यं तु जिनेश्वरम् ? ( स्वजितश्वरम् ) ॥ १ ॥ कृताञ्जलिपुटो भूत्वा पृच्छति त्वपराजितः । चित्रकाणां समुत्पत्ति कथयस्व परश्वर ॥ २॥ चित्र कतिविधं प्रोक्तं विचित्रं कीदृशं भवेत् । चित्रभाः कथमुत्पन्ना कथयस्त्र प्रसादतः ॥ ३ ॥ चित्रावतार सद्भावमुत्पत्ति प्रलयादिकम् । अस्मन्ननोबोधनार्थ चित्ररूपं च कथ्यताम् ॥ ४ ॥
विश्वकर्मोवाच
चित्रमूलोद्भवं सर्वे त्रैलोक्यं सचराचरम् । ब्रह्मविष्णुभवाद्याश्च सुरासुरनरोरगाः ॥ ५ ॥
स्थावरं जङ्गमं चैव सूर्यचन्द्रौ च (चित्रकारा च मेदिनी । चित्रमूलोद्भवं सर्वे जगत्स्थावरजङ्गमम् ॥ ६ ॥ वृक्ष गुल्मलतावल्लच स्वेदजाणुजरायुजाः । सर्वे चित्रोद्भवा वत्स भूधरा द्वीपसागराः ॥ ७ ॥ चतुरशीतिलक्षाणि जीवयोनिरनेकधा । चित्रमूलोद्भवाः सर्वे संसारद्वीपसागराः ॥ ८ ॥ श्वेतरक्तपीतकृष्णा वर्णा वै चित्ररूपकाः । तनौ च नखकेशादि चित्ररूपमिवाम्भसाम् ॥ ९ ॥ भगवान् भवरूपश्च पश्यतीदं परात्परम् । आत्मवद्वै सर्वमिदं ब्रह्मतेजोऽनुपश्यताम् ॥ १० ॥ पश्यन्ति भावरूपैश्च जले चन्द्रमसं यथा । तद्वचित्रमयं सर्वं पश्यन्ति ब्रह्मवादिनः ॥ ११ ॥ विश्व विश्वावतारश्च त्वनाद्यन्तश्च सम्भवेत् । आदि चित्रमयं सर्वं पश्यन्ति ब्रह्मचक्षुषा ॥ १२ ॥ शिवशक्तेर्यथारूपं संसारे सृष्टिकोद्भवः । चित्ररूपमिदं सर्वं दिनं रात्रिस्तथैव च ॥ १३ ॥ निमिषश्च पलं घट्यो यामः पक्षक एव च । मासाश्च ऋतवश्चैव कालः संवत्सरादिकः ॥ १४ ॥ चित्ररूपमिदं सर्वे संवत्सरयुगादिकम् । कल्पादिकोद्भवं सर्व सृष्ट्याद्यं सर्वकर्मणाम् ॥ १५ ॥ ब्रह्माण्डादिसमुत्पत्ती रचितारचिता तथा । तेषां चित्रमिदं ज्ञेयं नानात्वं चित्रकर्मणाम् ॥ १६ ॥