________________
अपराजित पृच्छा
चै कमण्डलुः ।
अक्षसूत्रं व खड्गश्च घण्टा महिषस्था शूकरास्या वाराही सर्वकामदा ॥ १६ ॥ गजासना चाक्षसूत्रं दण्डः पाशः कमण्डलुः । ऐन्द्री देवी च कर्तव्या चामुण्डा प्रेतगा तथा ॥ १७ ॥ अक्षसूत्रं च शक्तिश्च ताम्रचूडः कमण्डलुः । मयूरस्थ च कौमारी षड्वक्त्रा च प्रकीर्तिता ॥ १८ ॥ अक्षत्रचौ पुस्तकं च तथा चैव कमण्डलुः । चतुर्वक्त्रा च ब्रह्माणी हंसारूढा व कामदा ॥ १९ ॥ गदाचक्रे शङ्खपद्मे कुण्डलाभ्यामलङ्कृता 1 गरुडासन संस्था व वैष्णवी सर्वकामदा ॥ २० ॥ वृषस्थाक्षशूलखड्गाः खट्वाङ्गं मातुलिङ्गकम् । जटा किरीटेन्दुयुक्ता श्वेताङ्गी च महेश्वरी ॥ २१ ॥ इति मातृकाणां मूर्तय: ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवन देवाचार्योक्ता पराजित पृच्छायां देवी मूर्तिलक्षणाधिकारी नाम त्रयोविंशत्युत्तरद्विशततमं सूत्रम् ॥
५७५