________________
(२२३) देवीमूर्तिलक्षणं त्रयोविंशत्युत्तर द्विशततम सूत्रम् ॥
विश्वकर्मोवाचया चन्डघातिनीदेवी चामुण्डलक्षणं शणु। निर्माता कररूपाच उग्रनासा कृशोदरी ॥१॥ कपिला चोर्यकेशी च नीलाङ्गी रक्तलोचना। स्फुरन्नयनदंष्ट्रा च विकृत नखरानना ॥२॥ त्रिशूलखङ्गखेटाश्च धनुर्वाणश्च पाशकः । अकुशश्चैय घण्टा च तथा दर्पणवज्रको । दण्डः कुठारशखौ च चक्र गदा च मुद्गरः ॥ ३ ॥ सृक्किणी कपालमालालकृति बिभ्रती तथा। शवारूढा तु चामुण्डा जधे घण्टावलम्बिके ॥ ४ ॥ व्याघ्रचर्मपरीधाना भुजङ्गाभरणान्विता। सुनू पुरा घननादा दैत्यकाल इवापरः ॥ ५ ॥
इति चामुण्डामूर्तिः ।। कात्यायनीमतो वक्ष्ये क्षत्रयोदूगतशासनी । तेजः प्रतापदा नित्यं नृपाणां मुख-बोधिनी ॥६॥ शूलखङ्गो वनचक्रे बाणो दक्षिणबाहुषु । चापखेटकपाशश्च घण्टा वामेषु चाकुशम् ॥ ७ ॥ अप्रस्तानहिषं कुर्याद विशिरस्तंभ पादयोः । विद्यादक्षिणपादं तु महिषस्योपरिष्ठितम् ।। ८॥ पादपद्माय पादौ च वामपादं प्रदापयेत् । तथा छिनशिरस्कं च दैत्यन्तं रक्तवाससम् ॥९ गृहीत्वा चैव केशाग्रे वामकेन तथेश्वरी । हदि शूलेन निर्भिन्नं महिष-कुक्षौ सुदर्शनम् ॥ १० ॥ देव्यास्तु वाहन सिंहः संलग्नो महिषोपरि । कात्यायनी नामिका च कर्तव्या चैवमेव हि ॥ ११॥
इति कात्यायनी ॥ मातृणां च ततो वक्ष्ये भैरवादिगणांस्तथा । धीरेशं कारयेत्स वीणाहस्तं सनर्तनम् ॥ १२ ॥ गणनाथं ततः कुर्यात् गजवक्त्रं महोत्करम् । भादौ तु गणनाथं च ह्यन्ते कुर्यात्तु भैरवम् ॥ १३ ॥ मातृणां च तथा मध्ये पंक्तौ स्यु श्चण्डिकादयः । प्रवक्ष्येऽनुक्रम तत्र शृणु चैकाग्रमानसः ॥ १४ ॥ कण कपालमाला च मुण्डखट्वाङ्गशूलकाः । निर्मासा कररूपा च चामुण्डा दशनोज्ज्वला ॥ १५ ॥