________________
५७३
गौरीललीया दुर्गामूर्तयो नाम द्वाविंशत्युत्तर द्विशततमं सूत्रम् ॥ दण्डं त्रिशूलं खट्वाङ्गं पानपात्रं च बिभ्रती। रेवतीति तदा नाम सर्वशान्तिप्रदायिनी ॥ ३५॥ कमण्डलुश्च खड्गश्च डमरु: पानपात्रकम् । हरसिद्धि रिति ख्याता सर्वेषां सिद्धिहेतुका ॥ ३६॥
इति नवदुर्गाः॥ गोधासना भवेद् गौरी ललीया हंसवाहना। सिंहारूढा भवेद् दुर्गा कर्तव्याः सर्वकामदाः ॥ ३७ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायो
गौरीललीयादुर्गामूर्त्यधिकारो नाम द्वाविंशत्युत्तर द्विशततमं सूत्रम् ॥