________________
.५७३
अपराजितपृच्छा
अंक्षसूत्र बनशक्ती तदधश्च कमण्डलुः । त्रिषण्डा ( श्रीखण्डा ) वृद्धये पूज्या सर्वकामफलप्रदा ॥ १७ ॥ अक्षसूत्र तथा दण्डः खेटकं चामरं तथा । श्वेता ध्यानार्चनाद्देवी तोतला विषनाशिनी ॥ १८ ॥ पाशाङ्कुशाभयवरा धनेस्या? च चतुर्भुजा। त्रिपुरा नाम संपूज्या वन्दिता विदशैरपि ॥ १९ ॥
इति गौर्या द्वादशमूर्तयः ।। ललीयाः पञ्च वक्ष्यामि शस्त्रभेदैः प्रभेदिताः। लीलया लीला लीलागी ललिता च लीलावती ॥ २० ॥ मोक्तास्तथाऽनुक्रमतः स्वासनस्था? श्चतुर्भुजाः । तप्तकाश्चनवर्णाभा बालसूर्यसमप्रभाः ॥ २१ ॥ सुवक्त्राश्च सुनेत्राश्च सुरूपा रूपदायिकाः । रकोष्ठाः: कम्बुग्रीवाश्च कर्णपूरायतेक्षणाः ॥ २२ ॥ अक्षसूत्रकमण्डलू अधो हस्तेषु कामदाः । सर्वासामीदृशौ हस्तौ कथ्यते चोर्ध्वहस्तकौ ॥ २३ ॥ मृणालयुग्मं ललीया लीला पद्मं च पुस्तकम् । लीलागी पाशपमे च ललिता वज्रमङ्कुशम् ।। २४ ॥ पाशाङ्कुशौ लीलावती ललीयाः पञ्च चेरिताः।
इति पञ्चललीयाः॥ अधाऽतोऽनन्तरं वक्ष्ये दुर्गाणां नवकं तथा ॥ २५ ॥ आदौ तत्र महालक्ष्मी नन्दा क्षेमकरी तथा । शिवदूती महार (च) ण्डा भ्रमरी सर्वमङ्गला ॥२६॥ रेवती हरसिद्धिश्च नवदुर्गाः प्रकीर्तिताः । क्रमतः पृथगेकैकाः कथयाम्यपराजित ॥ २७॥ . घर त्रिशूलं खेदं च पानपात्रं च बिभ्रती। नाग तथा नीलकण्ठे महालक्ष्मीः सुखप्रदा ॥२८॥ अक्षसूत्र खड्गखेटो पानपात्रं तथैव च । नन्दा नाम सुविख्याता पूज्या चानन्दहेतवे ॥ २९ ॥ घरं त्रिशूलं पद्म च पानपान करेषु च । क्षेमकरीति तन्नाम क्षेमारोग्य प्रदायिनी ॥ ३० ॥ कमण्डलुश्चक्रखटौ पानपात्रं तथोत्तमम् । शिवदूतीति तन्नाम सर्ववृद्धिप्रदायिनी ।। ३१ ।। खगत्रिशलों घण्टा वै अथो चर्म तथोत्तमम् । महार (च) ण्डा तदा नाम घन्दिता त्रिदशैरपि ॥ ३२॥ खड़ग डमरुकं खेदं बिभ्रती पानपात्रकम् । भ्रमरी च तदा नाम भ्रामयेद्दष्टचेतसः ॥ ३३ ॥ अक्षसूत्रं तथा वजं घण्टा पात्रं तथोत्तमम् ।। सर्वमङ्गलमाङ्गल्या सर्वविघ्नविनाशिनी ॥ ३४ ॥