________________
(२२२) गौरीललीया दुर्गामूर्तयो नाम द्वाविंशत्युत्तर द्विशततम सूत्रम् ।
विश्वकर्मोवाच
गौर्याश्च सम्प्रवक्ष्यामि प्रमाणं मूर्तिलक्षणम् । ब्रह्मसूत्रोद्भवं सर्वं भजेदेकशताङ्गुलम् ॥१॥ त्रयोदशाङ्गलं मुखं ग्रीवास्यादङ्गलत्रयम् । अष्टाङ्गुलौ स्तनौ वृत्तौ हिक्का ? च चतुरगुला ॥२॥ द्वादशाङ्गुलिका नाभिरुदरं चतुरङ्गुलम् । वलिकात्रयसम्युक्तं गुह्यं सप्ताङ्गुलं तथा ॥३॥ ईविंशत्यगुला जवा जानु स्यादङ्गुल त्रयम् । जङ्घामानेन नलकः पादमूलं तु जानुवत् ॥४॥ चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता । गोधासनोपरिष्ठा च कर्तव्या सर्वकामदा ॥५॥ उमा च पार्वती गौरी ललिता च श्रियोत्तमा। कृष्णा हेमवती रम्भा सावित्री च तथैव च ॥६॥ विषडा (श्रीखण्डा ) तोतला ( चोत्पला) चैव त्रिपुरा द्वादशी मता । एवं द्वादशमूर्तिश्च कुर्माद्वै शिवशासनीः ॥ ७ ॥ अक्षसूत्रं चाम्बुजं च दर्पणश्च कमण्डलुः। एवं भवेदुमामूर्तिः पूजित त्रिदशैरपि ॥८॥ अक्षसूत्रं शिवो देवो गणाध्यक्षः कमण्डलुः । पक्षद्धये चाग्निकुण्ड पार्वती पर्वतोद्भवा ॥९॥ अक्षसूत्राभयपन तदधश्च कमण्डलुः । गौ-मूर्तिस्तथा चैव कर्तव्या शिवशासनी ॥ १० ॥ शूलाक्षसूत्रवीणाश्च तथैव च कमण्डलुः । ललिता चैव सन्नाम सिद्धचारणसेविता ॥ ११ ॥ अक्षपद्माभयवरं गोधिकासनसंस्थिता। भियामूर्तिस्तु तन्नाम गृहे पूज्या श्रिये सदा ॥ १२ ॥ अक्षसूत्रं कमण्डलु हृदये संपुराञ्चलिः। मध्ये पश्चाग्निकुण्डानां कृष्णा नाम तु शोभना ॥ १३ ॥ हिमवान शैलराजस्तु तस्थापत्य गिरीन्द्रजा । पणदर्पणसम्युक्ता विवाहे तु महेश्वरी ॥ १४ ॥ कमण्डल्वक्षवज्राश्च अकुशो गजसंस्थिता । तथाऽप्रतिमरूपा च रम्भा नाम तु कामदा ॥ १५॥ अक्षसूत्रं पुस्तकाजे तदधश्च कमण्डलुः । चतुर्वक्त्रा तु सावित्री श्रोत्रियाणां गृहे स्थिता ॥ १६ ॥