Book Title: Aparajitaprucchha
Author(s): B Bhattacharya
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 755
________________ (२२२) गौरीललीया दुर्गामूर्तयो नाम द्वाविंशत्युत्तर द्विशततम सूत्रम् । विश्वकर्मोवाच गौर्याश्च सम्प्रवक्ष्यामि प्रमाणं मूर्तिलक्षणम् । ब्रह्मसूत्रोद्भवं सर्वं भजेदेकशताङ्गुलम् ॥१॥ त्रयोदशाङ्गलं मुखं ग्रीवास्यादङ्गलत्रयम् । अष्टाङ्गुलौ स्तनौ वृत्तौ हिक्का ? च चतुरगुला ॥२॥ द्वादशाङ्गुलिका नाभिरुदरं चतुरङ्गुलम् । वलिकात्रयसम्युक्तं गुह्यं सप्ताङ्गुलं तथा ॥३॥ ईविंशत्यगुला जवा जानु स्यादङ्गुल त्रयम् । जङ्घामानेन नलकः पादमूलं तु जानुवत् ॥४॥ चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता । गोधासनोपरिष्ठा च कर्तव्या सर्वकामदा ॥५॥ उमा च पार्वती गौरी ललिता च श्रियोत्तमा। कृष्णा हेमवती रम्भा सावित्री च तथैव च ॥६॥ विषडा (श्रीखण्डा ) तोतला ( चोत्पला) चैव त्रिपुरा द्वादशी मता । एवं द्वादशमूर्तिश्च कुर्माद्वै शिवशासनीः ॥ ७ ॥ अक्षसूत्रं चाम्बुजं च दर्पणश्च कमण्डलुः। एवं भवेदुमामूर्तिः पूजित त्रिदशैरपि ॥८॥ अक्षसूत्रं शिवो देवो गणाध्यक्षः कमण्डलुः । पक्षद्धये चाग्निकुण्ड पार्वती पर्वतोद्भवा ॥९॥ अक्षसूत्राभयपन तदधश्च कमण्डलुः । गौ-मूर्तिस्तथा चैव कर्तव्या शिवशासनी ॥ १० ॥ शूलाक्षसूत्रवीणाश्च तथैव च कमण्डलुः । ललिता चैव सन्नाम सिद्धचारणसेविता ॥ ११ ॥ अक्षपद्माभयवरं गोधिकासनसंस्थिता। भियामूर्तिस्तु तन्नाम गृहे पूज्या श्रिये सदा ॥ १२ ॥ अक्षसूत्रं कमण्डलु हृदये संपुराञ्चलिः। मध्ये पश्चाग्निकुण्डानां कृष्णा नाम तु शोभना ॥ १३ ॥ हिमवान शैलराजस्तु तस्थापत्य गिरीन्द्रजा । पणदर्पणसम्युक्ता विवाहे तु महेश्वरी ॥ १४ ॥ कमण्डल्वक्षवज्राश्च अकुशो गजसंस्थिता । तथाऽप्रतिमरूपा च रम्भा नाम तु कामदा ॥ १५॥ अक्षसूत्रं पुस्तकाजे तदधश्च कमण्डलुः । चतुर्वक्त्रा तु सावित्री श्रोत्रियाणां गृहे स्थिता ॥ १६ ॥

Loading...

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810