SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ अपराजित पृच्छा चतुर्भुजा श्वेतवर्णा शङ्खचक्राभयवरा । लोहासना च कर्तव्या रथारूढा व रोहिणी ॥ १६ ॥ इति रोहिणी ॥ २ ॥ प्रज्ञावती श्वेतवर्णा षड्भुजा चैव संश्रुता । अभयवरदफल-चन्द्राः परशुरुत्पलम् ॥ १७ ॥ इति प्रज्ञावतों ॥ ३ ॥ नागपाशाक्षफलकं वरदं हंसवाहिनी । चतुर्भुजा तथैवोक्ता विख्याता वज्रगृहखला ॥ १८ ॥ इति वज्रशृङ्खला ॥ ४॥ चतुर्भुजा चक्रवज्र - फलानि वरदं तथा । श्वेतहस्तिसमारूढा कर्तव्या नरदत्तिका ॥ १९ ॥ इति नरदन्ता ॥ ५ ॥ चतुर्वर्णा स्वर्णवर्णाऽशनि चक्रफलं वरम् । अभ्ववाहन संस्था च मनोवेगा तु कामदा || २० || इति मनोवेगा ॥ ६॥ कृष्णाऽष्टबाहु त्रिशूल - पाशाङ्कुशधनुः शरा । चक्राभयवरदाश्च महिषस्था च कालिका ॥ २१ ॥ इति कालिका ॥ ७ ॥ कृष्णा चतुर्भुजा घण्टा त्रिशूलं च फलं वरम् । पद्मासना वृषारूढा कामदा ज्वालमालिनी ॥ २२ ॥ इति ज्वालामालिनी ॥ ८ ॥ चतुर्भुजा कृष्णवर्णा वज्रगदावराभयाः । कूर्मस्था च महाकाली सर्वशान्तिप्रदायिनी ॥ २३ ॥ इति महाकाली ॥ ९ ॥ । चतुर्भुजा श्यामवर्णा पाशाङ्कुशफलं वरम् सूकरोपरिसंस्था व मानवी चार्थदायिनी ॥ २४ ॥ इति मानवी ॥ १० ॥ पाशाङ्कुशाब्जवरदाः कनकाभा चतुर्भुजा । सा कृष्णहरिणारूढा कार्या गौरी च शान्तिदा ॥ २५ ॥ इति गौरी ॥ ११ ॥ करद्वये पद्मफले नकारूढा तथैव च । श्यामवर्णा प्रकर्तव्या गान्धारी नामिका भवेत् ॥ २६ ॥ इति गान्धारी ॥ १२ ॥ श्यामवर्णा षड्भुजा द्वौ वरदौ खड्गखेटको । धनुर्बाणी विराटख्या व्योमयानगता तथा ॥ २७ ॥ इति विराटाख्या ॥ १३ ॥ 4565
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy