________________
५६८
जिनेन्द्रमूर्तिलक्षणमेकविंशत्युत्तरद्विशततमं सूत्रम् ।। चतुर्भुजा स्वर्णवर्णा धनुर्बाणी फलं वरम् । हंसासनाऽनन्तमतिः कर्तव्या शान्तिदायिनी ।। २८ ॥
इत्यनन्तमतिः ॥ १४॥ षड्भुजा रक्तवर्णा च त्रिशलं पाशचक्रके। डमरुधैं फलवरे मानसी व्याघ्रवाहना ॥ २९ ॥
— इति मानसी ॥ १५ ॥ चतुर्भुजा सुवीभा शरः शाङ्गै च वज्रकम् । चक्र महामानसी स्यात् पक्षिराजोपरिस्थिता ॥ ३० ॥
इति महामानसी।। १६॥ वज्रचक्रे पाशाङ्कुशौ फलं च वरदो जया। कनकाभा षड्भुजा च कृष्णशुकरसंस्थिता ॥ ३१॥
इति जया ॥ १७ ॥ सिंहासना चतुर्बाहुर्वज्रचक्रफलोरगाः। तेजोवती स्वणवर्णा नाम्ना सा विजया मता ॥ ३२॥
इति विजया ।। १८ ।। खड्गखटे। फलवरौ श्यामवर्णा चतुर्भुजा। शान्तिदाऽष्टापदस्था च विख्याता ह्यपराजिता ॥ ३३॥
इत्यपराजिता ॥ १९ ॥ द्विभुजा स्वर्णवर्णा च खड्गखेटकधारिणी। सर्पासना च कर्तव्या बहुरूपा सुखावहा ॥ ३४॥
इति बहुरूपा ॥ २० ॥ रक्ताभाटभुजा शूल-खड्गौ मुद्गरपाशको। वज्रचक्रे डमर्वक्षौ चामुण्डा मर्कटासना ॥ ३५ ॥
इति चामुण्डा ॥ २१ ॥ हरिद्वर्णा सिंहसंस्था द्विभुजा च फलं वरम् । पुत्रेणोपास्यमाना च सुतोत्सङ्गा तथाऽम्बिका ॥ ३६ ॥
___ इत्यम्बिका ॥ २२ ॥ पाशाङ्कुशौ पद्मवरे रक्तवर्णा चतुर्भुजा। पद्मासना कुक्कुटस्था ख्याता पद्मावतीति च ॥ ३७॥
। इति पद्मावती ॥ २३॥ द्विभुजा कनकाभा च पुस्तकं चाभयं तथा। सिद्धायिका तु कर्तव्या भद्रासनसमन्विता ॥ ३८॥
इति सिद्धायिका ॥ २४॥
इति चतुर्विंशतिः शासनदेव्यः ।। वृषवक्त्रो महायक्षस्त्रिमुखश्चतुराननः । तुम्बुरुः कुसुमाख्यश्च मातनो विजयस्तथा ॥ ३९ ॥ जयो ब्रह्मा किन्नरेशः कुमारश्च तथैव च । षण्मुखः पातालयक्षः किन्नरो गरुडस्तथा ॥४०॥