________________
अपराजितपृच्छा
५६०
गन्धर्वश्चैव यक्षेश: कुधेरो वरुणस्तथा । भृकुटिश्चैव गोमेधः पाश्चों मातङ्ग एव च ॥४१॥ यक्षाश्चतुर्विशतिकाः ऋषभादेर्यथाक्रमम् । भेदांश्च भुजशस्त्राणां कथयामि समासत : ॥ ४२ ॥ घराक्षसूत्रे पाशश्च मातुलिङ्गं चतुर्भुजः । श्वेतवर्णो वृषमुखो वृषभासनसंस्थितः ॥ ४३ ॥
इति वृषवकत्रः॥ १।। श्यामोऽष्टबाहुर्हस्तिस्थो वरदाभयमुद्गराः । अक्षपाशाङ्कुशाः शक्ति मातुलिङ्ग तथैव च ॥४४॥
__इति महायक्षः ॥२॥ मयूरस्थत्रिनेत्रश्च त्रिवक्त्रः श्यामवर्णकः।। परश्वक्षगदाचक्र शङ्खा वरश्च षड्भुजः ॥४५॥
इति त्रिमुखः ॥ ३॥ नागपाशवज्राङ्कुशा हंसस्थश्चतुराननः ।। द्वौ सौ फलवरदी तुम्बुरु गरुडासनः ॥ ४६॥
इति चतुरानन तुम्वुरू ॥ ४-५॥ कुसुमाख्यो गदाक्षौ च द्विभुजो मृगसंस्थितः । मातङ्गः स्याद् गदापाशौ द्विभुजो मेपवाहनः॥४७॥
इति कुसुममातङ्गौ ॥ ६-७ ।। पशुपाशाभयवराः कपोते विजयः स्थितः। शक्त्यक्ष फलवरदा जयः कूर्मासनस्थितः ॥ ४८ ॥
इति विजयजयौ ॥ ८-९ ॥ पाशाङ्कुशाभयवरा ब्रह्मा स्याद्धंसवाहनः। त्रिशलाक्षफलवरा यक्षेभ्येतो वृषस्थितः॥४९॥
इति ब्रह्मयक्षेशौ ॥ १०-११ ॥ धनुर्बाणफलवराः कुमार: शिखिवाहन । षण्मुखः षड्भुजो वज्रो धनुर्बाणौ फलं वरः ॥५०॥ .
इति कुमारषण्मुखौ ॥ १२-१३ ।। किन्नरेशः पाशाङ्कुशौ धनुर्बाणौ फलं वरः। पातालश्च वजाइकुशौ धनुर्बाणौ फलं वरः ॥ ५१ ।।
इति किन्नरपातालो॥ १४-१५ ॥ पाशाङकुशफलवरा गरुडास्याच्छुकासनः ।। पनाभयफलवरा गन्धर्वः स्याच्छुकासनः ॥ ५२॥
___इति गरुडगन्धर्वो ॥ १६-१७ ॥ यक्षेट खरस्थो बजारि धनुर्बाणाः फलं वरः। पाशाङकुशफलवरा धनेट सिंह चतुर्मुखः ॥ ५३ ॥
इति यक्षेशकुबेरौ ॥ १८-१९ ॥ ४२ अप.