________________
(२२१) जिनेन्द्रमूर्तिलक्षणमेकविंशत्युत्तरद्विशततमं सूत्रम् ॥
विश्वकर्मोवाच--
तीर्थकरान् प्रवक्ष्यामि चतुर्विंशतिसङ्ख्यकान् । नामवर्णलाञ्छनार्थ-देवी-यक्षादिककमम् ॥१॥ । ऋषभश्चाजितश्चैव संभवश्चाभिनन्दनः । सुमतिः पद्मप्रभश्च सुपार्श्वः सप्रभोप्तमो मतः ॥२॥ चन्द्रप्रभश्च सुविधिः शतिलो दशमो मतः । श्रेयांश्चसो वासुपूज्यश्च विमलोऽनन्तसंज्ञकः ॥ ३ ॥ धर्मः शान्तिः कुन्थुररो मलिनाथस्तथैव च । मुनिस्तथा सुव्रतश्च नमिश्चारियनेमिकः ।। पार्श्वनाथो वर्धमानश्चतुर्विंशतिरहताम् ॥ ४॥ चन्द्रप्रभः पुष्पदन्तः श्वेतो धै क्रौञ्चसम्भवौ ? । पनप्रभो धर्मनाथो रक्तोत्पलनिभौ मतौ ॥ ५ ॥ सुपार्श्वः पार्श्वनाथश्च हरिद्वौँ प्रकीर्तितो। नेमिश्च श्यामवर्णः स्यान्नीलो मलिः प्रकीर्तितः ॥ ६ ॥ शेषाः षोडश सम्प्रोक्तास्तप्तकाञ्चनसमप्रभाः। वर्णनि कथितान्यग्रे लाञ्छनानि ततः शृणु ॥ ७ ॥ वृषो गजाश्वकपयः क्रौञ्चपद्मकस्वस्तिकाः । चन्द्रो मकर श्रीवत्सौ गण्डको महिषस्तथा ॥ ८॥ . शकरः शशादनश्च वज्रश्च मृग आजकः । नन्द्यावर्तश्च कलशः कूमौ नीलाज-शलकौ ॥९॥ सर्पः सिंहश्चर्षभादेर्लाञ्छनानीरितानि च । चतुर्विशतिरुच्यन्ते क्रमाच्छासनदेविकाः ॥ १० ॥ चक्रेश्वरी रोहिणी च प्रज्ञा वै वज्रशङ्खला । नरदत्ता मनोवेगा कालिका ज्वालमालिका ।। ११ ।। महाकाली मानवी च गौरी गान्धारिका तथा । विगटा तारिका चैवानन्तागतिश्च मानसी ॥ १२ ।। महामानली च जया विजया चापराजिता । बहुरूपा च चामुण्डाम्बिका पद्मावती तथा ॥ १३ ॥ सिद्धायिकेति देव्यस्तु चतुर्विंशतिरर्हताम् । कथितान्यभिधानानि शस्त्रभेदोऽत्र कथ्यते ॥ १४ ॥ षट्पादा द्वादशभुजा चक्राण्यष्टौ द्विवज्रकम् ।। मातुलिङ्गाभये चैव तथा पद्मासनाऽपि च ॥ १५ ॥ गरुडोपरिसंस्था च चक्रेशी हेमवर्णिका ।
इति चक्रेश्वरी ॥१॥