________________
अपराजित पृच्छा
इन्द्र इन्द्रजयश्चैव महेन्द्रो विजयेन्द्रकः । धरणेन्द्रः पद्मकश्च सुनाभः सुरदुन्दुभिः ॥ ३३ ॥ इत्यष्टौ च प्रतीहाराः पीतरागादिशान्तिदाः । पृथगेकशश्चैव कथयिष्याम्यनुक्रमम् ॥ ३४ ॥ फलं वज्राङ्कुशौ दण्ड इन्द्रोऽलव्ये इन्द्रजयः । द्वौ वज्र फलदण्डौ च महेन्द्रोऽसव्ये विजयः ? ॥ ३५ ॥ तदायुध्योगोद्भवास्त्रिपञ्चाश्वषणा ( ग्रह ) मताः । धरणेन्द्रः पद्मकश्च सर्वे शान्तिकराः स्मृताः ॥ ३६॥ यक्षरूपाधिकाराश्च निधिहस्ताः शुभोदराः । सर्वशान्तिप्रदावेवं सुनाभः सुरदुन्दुभिः || ३७ ॥ इत्यष्टौ च जिनेन्द्रस्य प्रतिहाराश्च शान्तिदाः । नगरादौ पुरे ग्रामे सर्वविघ्नप्रणाशनाः ॥ ३८ ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृ श्री भुवन देवाचार्यो का पराजित पृच्छायां सर्वप्रतिहार निर्णयाधिकारो नाम त्रिंशत्युत्तरद्विशततमं सूत्रम् ॥
५६५