SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ ५६४ अपराजित पृच्छा तर्जनी दण्डापसव्ये स भवेद्विघ्नराजकः । पूर्वद्वारोभयभागे सर्वविघ्नविनाशकः ॥ १६ ॥ तर्जनी खड्गखेटौ तु दण्डो हस्तैः सुवक्त्रकः । तर्जनी दण्डापसव्ये बलवांश्च समीरितः ॥ १७ ॥ तर्जनी बाणचापौ च दण्डश्चक्राब्जकर्णकः । तर्जनी दण्डापसव्ये गोकर्णः पश्चिमस्थितः ॥ १८ ॥ . तर्जनीपद्माङ्कुशाश्च दण्डश्चैव स सौम्यकः । शस्त्रापसव्ये च तथा भवेदभयदायकः ॥ १९ ॥ द्वारपक्षौ सर्वदिक्षु स्थाप्या विघ्नविनाशनाः । इत्यष्टौ च प्रतीहारा नृपाणां शान्तिमिच्छता ॥ २० ॥ इति गणेश प्रतिहाराः ॥ जया च विजया चैव अजिता चापराजिता । निभक्का मङ्गला 'चैव मोहिनी स्तम्भनी तथा ॥ २१ ॥ अभयाङ्कुशपाशाश्च दण्डः प्रदक्षिणं जया । सव्यापसव्ये शस्त्राणां विजया सा प्रकीर्तिता ॥ २२ ॥ अभयाजपाशा दण्डोऽजिता सव्येऽपराजिता । अभीवज्राङ्कुशदण्डा विनिभक्काऽसव्यैर्मङ्गला ? ॥ २३ ॥ अभयशखाजदण्डा मोहिनीत्येव नामतः । शस्त्रापसव्ययोगेन सा भवेत् स्तम्भनी तथा ॥ २४ ॥ गौर्याचायतने शस्ता अष्टौ स्युर्द्वारपालिकाः । इति गौर्या द्वारपालिकाः ॥ चण्डिकायास्तथैवोकान् कथयिष्याम्यनुक्रमात् ॥ २५ ॥ वेताल: कोटरचैव पिङ्गाक्षो भृकुटिस्तथा । धूम्रक: कंकद (ट)श्चैव रक्ताक्षश्च सुलोचनः ॥ २६ ॥ दष्ट्रास्यविकटाः कोपे स्फुरद्दशन कोज्ज्वलाः । बर्वरीकाश्च कृष्णाङ्गा मरक्काक्षा महाबलाः ।। २७ ।। तर्जनी चैव खट्वाङ्गो डमरुर्दण्ड आयुधम् । "वैतालः स समाख्यातो ह्यपसव्ये तु कोटरः ॥ २८ ॥ अभय खड्गखेटकं दण्डः पिङ्गाक्ष एव च । अभयापसव्ययोगे भवेद् भृकुटिनामकः ॥ २९ ॥ तर्जनी वज्राइकुशा वै दण्डो धूम्रकनामकः । सव्यापसव्य योगेन भवेत् केकदटनामकः ॥ ३० ॥ तर्जनी च त्रिशूलं च खट्वाङ्गो दण्ड एव च । रक्ताक्षरस व नाम्ना वै वामे दक्षे त्रिलोचनः ॥ ३१ ॥ दिशाद्वारपक्षयुग्मो स्थिता विघ्नविनाशनाः । इत्यष्टौ च प्रतीहारा देवीनां सर्वसम्मताः ॥ ३२ ॥ इति चण्डिकाया अष्टौ प्रतिहाराः ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy