________________
(२२०) सर्वप्रतिहारनिर्णयो नाम विंशत्युत्तरद्विशततमं सूत्रम् ॥
विश्वकर्मोवाच
ब्रह्मणोऽष्ट प्रतीहारान् कथयिष्याम्यनुक्रमात् । पुरुषाकारगम्भीराः सुकूर्चा मुकुटोज्ज्वलाः ॥ १॥ पद्मं स्तुक पुस्तकं दण्डः वामे स्यात्सत्यनामकः । शस्त्रापसध्ययोगेन दक्षिण धर्मको भवेत् ॥ २॥ अक्षपद्मागमा दण्डः वामे चैव प्रियोद्भवः । दण्डागमस्क फलकं यज्ञः स्यात्सर्वकामदः ॥ ३ ॥ अक्षसूत्रं गदा खेटं दण्डो विजयनामकः । अधोहस्तापसव्येन फलयुक् यज्ञभद्रकः ॥४॥ अक्षपाशाङ्कुशदण्डा भवः स्यात्सर्वकामदः । . दण्डाङ्कुश-पाशपद्म विभवः सर्वशान्तिदः ॥ ५॥
इति ब्रह्मप्रतिहारा अष्ट ॥ दण्डी च पिङ्गलश्चैव ह्यानन्दो नन्दकस्तथा । चित्र विचित्रो ज्ञातव्याः किरणाक्षः सुलोचनः ॥ ६॥ सर्वे ते पुरुषाकाराः कर्तव्याः शान्तिमिच्छता । अष्टौ स्युश्च चतुर्दाःसु सव्यदक्षिणतः क्रमात् ॥ ७ ॥ तर्जनी किरणश्चैव ताम्रचूडश्च दण्डकः । दण्डी नाम तथा वामे शृणु रिङ्गालकस्य च ॥ ८॥ शक्तिश्च किरणस्थाने ताम्रचूडपदेशकः। . पूर्ववत् तर्जनीदण्डौ पिङ्गल: पूर्वदक्षिणे ॥९॥ तर्जन्यौ द्वे वज्रदण्डावानन्दक इति स्मृतः । तर्जनी दण्डापसव्ये संभवे दन्तकस्तथा ॥ १०॥ द्वे तर्जन्यौ पद्मदण्डो वामतश्चित्रकः स्मृतः । तर्जनी दण्डापसव्ये विचित्रो दक्षिणे स्थितः ॥ ११ ॥ तर्जन्यौ किरणो दण्डः किरणाक्षस्तथैव च । तर्जनी दण्डापसव्यौ प्रतीहारः सुलोचनः ॥ १२ ॥ इत्यष्टौ च प्रतीहाराः सर्वविधनप्रणाशनाः। सर्व तेजोमया नित्यं सूर्यदेवप्रत्यात्मकाः ॥ १३ ॥
इति भास्करस्याप्टौ प्रतिहाराः ।। अविघ्नो विघ्नराजश्च सुवक्त्रो बलवानथ । गजकर्णश्च गोकर्णः सौम्यश्चभयदायकः ॥ १४ ॥ सर्वे तु वामनाकाराः सौख्यदाः पुरुषाननाः । तर्जनी परशुः पद्मं दण्डो हस्तेष्वविन्नकः ।