________________
५६२
- विष्णुमूर्तयो नामैकोनविंशत्युत्तरद्विशततम सूत्रम् । चण्डाभिधानश्चाख्यातोऽसन्यासव्ये प्रचण्डकः । वामे चण्डः प्रकर्तव्यः प्रचण्डश्चैव दक्षिणे ॥ ५२॥ पा खड्गः खेटकाख्यो गदा चैव प्रदक्षिणम् । जयोऽथ विजयः पनगदयोश्च विलोमतः ॥ ५३॥ तर्जनी बाणचापौ च गदा चैव प्रदक्षिणम् । धाता गदा वापसव्ये विधाता च तथोत्तमः ॥ ५४ ।। तर्जनी पद्मशखौ च गदा चैव प्रदक्षिणम् ।
भद्रश्च शस्त्रापसव्ययोगे चैव सुभद्रकः ॥ ५५ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
विष्णुमूर्त्यधिकारो नामैकोनविंशत्युत्तरद्विशततमं सूत्रम् ॥