________________
अपराजितपृच्छा
५६१
गदा खड्गश्च चक्रं च वज्राङ्कुशवरास्तथा । भुजेषु दक्षिणेष्वेवमलषट्कं तथोत्तमम् ॥ ३५॥ शवः खेटो धनुः पद्मं दण्डपाशौ तथैव च । भुजेषु चैव वामेषु शस्त्रषट्कमितीरितम् ॥३६॥ नरास्यो नारसिंहास्यः श्रीमुखः सूकराननः । तेजःपुञ्जमयः कार्यों ह्यनन्तो नाम नामतः ॥ ३७॥
इत्यनन्तः ॥ त्रैलोक्यमोहनं वक्ष्ये संसारे मोहकारकः । स षोडशभुजैर्युक्तस्तार्क्ष्यस्थश्च महाबलः ॥ ३८ ॥ गदा वज्राङ्कुशौ बाणः शक्तिश्च तथा क्रमात् । वरदश्चेति हस्तेषु ास्त्राणि दक्षिणेषु च ॥ ३९ ॥ मुद्गरः पाशशाङ्गं च शखः पन कमण्डलुः । शङ्गी वामेषु हस्तेषु योगमुद्रा करद्वये ॥ ४०॥ नरास्यो नारसिंहास्यः सूकरः कपिलाननः । द्विरष्टशक्तिसंयुक्त कार्यस्त्रलोक्यमोहनः । ४१ ॥
इति त्रैलोक्यमोहनः॥ वैनतेय प्रवक्ष्यामि प्रमाणे स्वामिसन्निभः ।। विष्णोरेवाग्रतः कार्यों नान्येषां च दिवौकसाम् ॥ ४२ ॥ मूले चाहॊद्भवं मानं नतां स्तासादत्वासकै ? । नवतालोद्भवा कार्या अर्चा चायामतस्तथा ॥ ४३ ।। पञ्चषट्सप्ता द्विरंगुला नतो छाया ? । गुह्यनाभिस्तनं यावत् वाहनस्योच्छ्रयोऽग्रतः॥४४॥ पादो जानु कटियर्यावदाया वाहनस्य दृक् ।। करपुटाग्रस्थानं च कर्तव्यं वै भयात्मकम् ॥ ४५ ॥ नररूपसमाकारः तुगतीक्ष्णोग्रनासिका। भुजोपर्युभयपक्षो मुकुटालङ्कृतस्तथा ॥ ४६॥ तलजानुर्वामपादः पादो जानुपुटोऽपरः ।. पादपद्मानक भव्यं पक्षोत्सेधसुशोभितः ॥ ४७ ॥ शिवाने वृषभः स्थाप्यो विष्णोरणे च पक्षिराट् । ब्रह्मणोऽग्रे सदा चैवं श्वेताङ्गो हंस एव च ॥४८॥ सूर्याने च भवेद् ब्योम देव्यग्ने पादुका तथा । अर्चायाः पादपद्माग्रे पादुका तुल्यमुच्छ्रिता ॥ ४९ ॥
इति गरुडः॥ प्रतीहारांस्ततो वक्ष्ये ह्यष्टौ चैव चतुर्देिशम् । तदनुक्रमरूपं च लक्षयेवक्ष्येऽहं यस्य यादृशम् ॥ ५० ॥ वामनाकाररूपाश्च कर्तव्याः सर्वथोत्तमाः।
तर्जनी शङ्खचक्रे च दण्डश्च प्रथमो वरः ॥ ५१ ॥ ७१अप.