________________
५६०
अपराजितपृच्छा भागत्रयात्पुष्करतोऽर्धभागं मस्तक परे । सपादभागः कर्णश्च स तत्राग्रोन्नतो भवेत् ॥ १८॥ कर्णयोः समसूत्रे तु भागाध दृष्टिरेव च । गजनेत्रोपमा कार्या मस्तकं गजमस्तवत् ॥ १९ ॥ मस्तपुस्तकयोर्मध्ये भाग पंडश वृत्तकाः। उद्धताग्रो वामपादोऽपरं स्यान क्रमम् ? ॥ २० ॥ मस्तस्य भागपादे पृष्ठे मेरु लिङ्गाकृतिः। तत्प्रदक्षिणत: कुर्यात् त्रैलोक्यं सचराचरम् ॥ २१ ॥ पुच्छग्रीवाग्रन्थिहृद-याग्रे व शेषसंभवः । कार्यश्चाऽधस्तु कृमो वै तस्याऽधो जलपट्टकम् ।। २२ ।। एवमादि प्रकर्तव्यमुक्तं सौकरमानकम् । दंष्ट्राग्रे वै लक्ष्मी वीमे दंष्ट्रायां दक्षिणः करः ॥२३॥
__ इति वाराहप्रमाणम् ॥ वैकुण्ठो विश्वरूपश्चाऽनन्त त्रैलोक्यमोहनौ । पृथगेकैकमूर्तीश्च कथयिष्याम्यनुक्रमात् ॥ २४ ॥ प्रवचम्यथ वैकुण्ठं सोऽष्टबाहुर्महाबलः। गरुडस्थश्चतुर्वक्त्रः कर्तव्यः शान्तिमिच्छता ॥ २५ ॥ गदा खड्गो बाणचके दक्षिणेऽस्त्रचतुष्टयम् । शखः खेटो धनुः प्रद्मं वामे चाऽस्त्रचतुष्यम् ॥ २६ ॥ पुरतः पुरुषाकारो नारसिंहश्च दक्षिणे । अपरे श्रीमुखाकारो वाराहास्यस्तथोत्तरे ॥२७॥
इति वैकुण्ठः ॥ विश्वरूपो महातेजा विश्वशः सृष्टिकारकः । तस्य चाऽनुक्रमं वक्ष्ये भुजानां विंशतिस्तथा ॥८॥ पताका हलश-खो च वज्राकुशशरास्तथा। चक्रं च बीजपूरं च वरो दक्षकरेषु च ॥ २९ ।। पताका दण्डपाशौच गदाशार्गे तथैव च । पद्मं शृङ्गी च मुशलमक्षं वामभुजेषु च ॥ ३० ॥ करयुग्मे योगमुद्रा वैनतेयोपरिस्थितः। नरश्च नारसिंहश्च श्रीमुखः सूकराननः ॥ ३१ ॥ स्रष्टा विश्वस्य जगतो विश्वमूर्ति महोद्भवः । शक्तिविंशतिसम्युक्तः कर्तव्यः सर्वकामदः ॥ ३२ ॥
इति विश्वरूपः ।। अनन्तोऽनन्तरूपश्च यतोऽनन्तजगद्भवः। अनन्तशक्तिसंकीणोऽनन्तरूप समुद्भवः ।। ३३ ।। भुजैदशकैर्युक्तश्चतुर्वक्त्रो महोत्सवः । सुपर्ण केतु गख्यातः कर्तव्यः सर्वकामदः ॥ ३४ ॥