________________
(२१९) विष्णुमूर्तयो नामैकोनविंशत्युत्तरद्विशततमं सूत्रम् ॥
विश्वकर्मोवाच
अथातः सम्प्रवक्ष्यामि लक्षणं जलशायिनः । शयानः शेषपर्यके शेषं तुल्यो ने धृतिः १ ॥ १ ॥ अष्टतालस्तथायामे सन्मानि धू वृतोद्भवम् ? | नवताल: पूर्णवृत्ते लिङ्गरूपसुखासनम् ॥ २ ॥ तेनावर्त्तेन रूपं स्यात् गर्भं कुर्यात् शाश्वतम् ? एक: शिरोधरो हस्तचैको हत्कमलस्थितः ॥ ३ ॥ गदा चै वामतो हस्ते ऊर्ध्वे चैव सुदर्शनम् । किरीटमाला शोभाढ्यो वनमालाविभूषितः ॥ ४ ॥ हारकेयूरसंयुक्तः कुण्डलाभ्यामलङ्कृतः । माला तुल्याः सप्त फणा मुकुटान्ते व्यवस्थितः ॥ ५ ॥ भृतामृताः सप्तकुम्भा नवनागकुलान्यधः । लक्ष्मीः पादतले लग्ना तार्क्ष्यः करपुटाञ्जलिः ॥ ६ ॥ ब्रह्मा च नाभिकमले कमलयोनिसंज्ञकः । सप्तलोकाः परिकरः क्रमेण परिकीर्तिताः ॥ ७ ॥ दशावताराः कर्तव्याः मन्दरोन्मथनादिकम् । एवं विधः प्रकर्तव्यो विष्णु र्वै जलशायिकः ॥ ८ ॥ साहाय्ये केशवः कार्य स्त्रिविक्रमदामोदरौ । अधोक्षजस्तथैव स्यान्नाऽन्यमूर्तिः प्रशस्यते ॥ ९ ॥ इति जलशयनः ॥ सप्तभागोच्छ्रयं कुर्यान्नवभागायतो भवेत् । द्विभागं मस्तकं कुर्यात् तुण्डनाली द्विभागतः ॥ १० ॥ भागा पिण्डे तुण्डनाली ? श्रीवास्थाने सार्धद्विकम । त्रिवलीसहिता ग्रीवा सार्धंशद्विकवृत्तिका ॥। ११ ॥ मस्तकाभागः स्कन्धः पादाश्चचतुर्भागतः । एवं पृष्ठोद्भवः कार्यो द्विरदाकारकस्तथा ॥ १२ ॥ सार्धद्वयंशावग्रपादावपरौ च द्विभागको ।
त्रिभागं पिण्डर्क कार्य भागस्यादक्षदेशकम् ॥ १३ ॥ भागाश्वाग्रपादश्च भागपादा खुरी मता । द्विभागं बाह्यकं कार्य सार्धस्यापि क्रमेण च ॥ १४ ॥ जानुभागं चार्थभागं शुण्डिका ? (सुरिका) पादभागिका पिण्डभागे वाहुमध्ये एकभागं तथोदरम् || १५ | चतुर्भागौ च द्वौ कुक्षी सुवृत्तं जठरं तथा । पुष्करं भागपादनं पादैका कोष्ठपालिका ॥ १६ ॥ पुष्करे समविस्तारं वृत्ताकारं सुसंस्थितम् । पुष्करे छिद्रयुग्मं च वक्त्रं दंष्ट्रा द्वयान्वितम् ॥ १७ ॥