Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून २०१३
भवदीयपादपूजां जगत्पते ! जनयितुं मदीयेयम् । हस्तद्वयी च जिह्वा गुणग्रहे ते महाचपला : ( ला ) ॥१३१॥ कल्पद्रुमाधिकफलप्रद ! भक्तजन्तो -स्त्वत्पादपङ्कजयुगस्य ममाऽस्तु सेवा । स्वर्गापवर्गसुख तिसमुक्तमस्ति (?), सेवा भवेन्न महतां विफला कदापि ॥१३२॥ श्रीतातपादैः प्रवरप्रसादैर्गतावसादैर्विगलत्प्रमादैः ।
श्रीचन्द्रशाखाम्बर भासनैक - सहस्रपादैः प्रणतेन्द्रपादैः || १३४ || सन्दर्भिताः सौववपुःसमीपा - भिवर्तिवाचोपचयैर्वचोभि: । प्रसादमाधाय शिशौ स्वकीये प्रसादपत्र्यस्तु मुदे प्रसाद्याः || १३५ || भूरिवर्षविरहानलतप्तचित्त - सन्नीलकण्ठममलं कलिदोषमुक्तम् । आनन्दयिष्यति च मोदपयः प्रपूरै - स्तृष्णातुरं जगति लेखलसत्पयोदः ॥ १३६ ॥ त्व [त्पत्र]लेखः स्फुटमञ्जुभाषी प्रशस्तहस्ताह्वविमानसंस्थ: । आनन्दयिष्यत्यनिशं विदग्धो विशुद्धवंशप्रभवोऽत्यभीष्टः ॥ १३७॥ यतः सन्तो भवन्तीह, प्रार्थनाभङ्गभीरवः । उदारचरिताश्च स्यु-र्विशेषज्ञा विशेषतः ॥१३८॥ आज्ञारसिकचित्तस्य किङ्करात् किङ्करस्य च । हितशिक्षा हिताः प्रेष्याः प्रेष्यानन्दकृते प्रभो ! ॥१३९॥ दासः प्रेष्यः प्रसादार्थी सेवाहेवाकसेवकः । किङ्करस्तावकीनोऽस्मि तत्प्रसादमपि प्रभो! ॥ १४०॥ पात्रापात्रविचारोऽपि महतां नैव युज्यते ।
केवलं कृपया लेख-प्रसादेन च पालय ॥ १४१ ॥ वासरोऽवसरः सोऽपि, साऽपि वेला प्रशस्यते । यत्र श्रीतातपादानां दर्शनं जायते शिशोः ॥ १४२॥ दुःप्रापं मन्दभाग्यानां चिन्तारत्नं भुवस्तले । तथाऽस्मादृशां स्वामिन् ! दर्शनं पावनं तव ॥१४३॥ स्वशिशोः प्रणतिस्तातै - रवधार्योपवैणवम् ।
१६१
भाग्योदये च [मे] साक्षाद्, भाविनी पाविनी पुनः ॥ १४४ ॥ त एव धन्या भुवि ते विशुद्धा (द्धा:), सुजन्मिनस्ते खलु ते कृतार्थाः । सुजीविनस्ते धुरि कीर्त्तनीया-स्ते पुण्यभाजां सुकृतैकभाजनम् ॥१४३॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300