Book Title: Anusandhan 2013 07 SrNo 61
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून - २०१३
२३३
२३३
(५६) श्रीविद्यासागरसूरिग्रणीता प्रसादपत्री (अपूर्णा) श्रीसरस्वतीदेव्यै नमः ॥ श्रीगोडीपार्श्वनाथाय नमः ॥ श्रीगुरुभ्यो नमः ।। स्वस्तिश्रीगौडिपार्श्वश्शतमखप्रणतस्त्यक्तमोहान्धकारः,
सर्वेषां भव्यपुंसामभयवरदानात्(?) धूर्जितः स्फारकीर्तिः । निर्व्याघातप्रपूर्णप्रगुणगणधरज्ञानधर्ता प्रणेता
श्रीणां दाताऽघहर्ता विजयति जगदानन्दकर्ता जिनेन्द्रः ॥१॥ अमरसागरसूरिगणेश्वरा, अमरसौख्यकराः प्रभवन्तु मे । अमरवृक्षमिवेप्सितदायकाः, प्रतिभया विजितामरसूरयः ॥२॥ श्रीशान्तिदेवो वितनोतु शान्ति, समस्तभक्तामरमानवानाम् । श्रीविश्वसेनेशकुलार्यमासमः, सद्भव्यचित्ताम्बुजबोधकश्च ॥३॥ विद्याब्धयः सूरिगुणैरलङ्कृताः(ता), विद्याचणा:(णा) ज्ञानकलासमन्विताः । कान्तं पलाशं शिवदं ___णा, लिखन्ति बुरहान(बुर्हान)पुरात् प्रहर्षात् ॥४।। सुखसंयमयात्राऽत्र, कल्याणं मङ्गलं तथा । सदा[पि] वर्त्तते श्रीमद्-देवगुर्वोः प्रसादतः ॥५॥ जालणातो विहृत्याऽव-रङ्गाबादे समागताः । तर्हि तत्राऽस्तिकाश्चक्रुः, प्रवेशोत्सवसुन्दरम् ॥६।। चातुर्मासकविज्ञप्तिं, _ _ _ श्रोतुकामुकः । द्वौ मासकल्पौ यावच्च, तस्थौ [सङ्घाग्र] है: पुनः ॥७॥ सार्द्धद्विमासाः तद्दने, तस्थुः सङ्घा _ _ _ _ । इतश्च बुर्हानपुरस्य, सङ्घो नश्चा _ _ _ _ ॥८॥
- - - - - - - मञ्जुलमाहेता - । रम्याङ्गना गेयसु _ _ _ _ , समग्रवादित्रप्रवाद्यमाने ॥९॥ . अनेक(का) मिलिता लोकाः, केचिद् भावात् कुतूहलात् । मोतीचन्द्रो ददुः _ _ , प्रत्येकं श्रीफलं वरं ॥१०॥ प्रत्यूषेऽस्माभिर्व्याख्यानं(ने), विशेषावश्यकं शुभम् । सद्वृत्तिसंयुतं सम्प्रत्(?), क्रियते सङ्घसंसदि ॥११॥
-
-
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300